________________
हेमचन्द्रव्याकर
शमेव च वा ॥ ४७० ॥
शमूष् उपशमे | इत्यस्मादलः प्रत्ययो [ भवति ] मकारस्य च बकारो वा भषति || शवलः कल्माषः || शमलं पुरीषं दुरितं च || ४७० || छोर्डग् गादिर्वा ॥ ४७१ ॥
छच् छेदने । इत्यस्मात्किदल: प्रत्ययो [ भवति ] स च डगादिर्गादिर्वा भवति || बगलरछागः ॥ छागल ऋषिः || छलं वचनविघातोर्थविकल्पो पप
दया || ४७९ ।।
८४
[४७०-४७५
मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥
एभ्यो डिद्दलः प्रत्ययो भवति || मृजौक् शुद्धौ । मलं बाह्यं रजोन्तर्दोषश्च ।। खनूग् अवदारणे | खलो दुर्जनो निष्पीडितरसं पिण्याकादि । खलं सस्यफलमहृणभूमिः || हनंक् हिंसागत्योः | आङ्पूर्वः । भाहलो विषाणं नखरश्च ||४७२।। स्थो वा || ४७३ ॥
तिष्ठतेरलः प्रत्ययो [ भवति ] स च डिद्वा भवति || स्थलं प्रदेशविशेषः || स्थालं भाजनम् || ४७३ ॥
मुरलोरलविरलकेरलकपिञ्जलकज्जलेज्जलकोमलभृमलसिंहलकाहलगूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ४७४ ॥
एतेलप्रत्ययान्ता निपात्यन्ते || मुयुयोर्वलोपः किच | मुरला जनपदः || बरल उत्कटः || विपूर्वात् रमेोर्डच । विरलोसंहतः || किरः केर च । केरला जनपदः || कम्पेरिजोन्तो नलोपश्च । कपिञ्जलो गौरतित्तिरः || कषीषोजन्तो जश्च । कज्जलं मषी || इज्जलो वृक्षविशेषः || कमेरत भोच्च | कोमलं मृदु || भ्रमेर्भृम् च | भूमलो वायुः कृमिजातिश्व | भ्रमलं चक्रम् ॥ हिंसेराद्यन्तविपर्ययश्च । सिंहला जनषदः ॥ कणेर्हो दीर्घश्व | काहलोव्यक्तवाक् | काहला वाद्यविशेषः ॥ शकेरूच्चास्य । शूकलोश्वाधमः || पचेः पाक् च | पाकलो हस्तिज्वरः || युजेः किन च । युगलं युग्मम् || भातेर्गोन्तो ह्रस्वश्व | भगलो मुनिः || विन्देर्नलोपश्च । विदलं वेणुदलम् || कनेरत उत्तोन्तव । कुन्तला जनपदः केशाश्च || उत्पूर्वात् पिबतेर्ह्रस्वश्च | उत्पलं पद्मम् || आदिग्रहणात् सुवर्चला मुगलपुङ्गलादयो भवन्ति || ४७४॥ ऋकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपञ्चिमङ्गिगण्डिमण्डि
चण्डितण्डपिण्डिनन्दिनदिशकिभ्य आलः || ४७५ ॥
एभ्य आल; प्रत्ययो भवति || कंक् गतौ । अरालं वक्रम् || डुकुंग् करणे I
Aho! Shrutagyanam