________________
४५४-४५९]
उणादिगणविवृतिः। .
चिमिदिशंसिभ्यः कित् ॥ ४५४॥ एभ्यः किचः प्रत्ययो भवति ।। चिंग्ट् चयने । चित्रमाश्चर्यमालेख्यं वर्णश्व || निमिदाच् स्नेहने । मित्रं सुहत् । अमिन्नः शत्रुः । मिनः सूर्यः ।। शंसू स्तुती च | शस्त्रं स्तोत्रमायुधं च ॥ ४५४ ॥
पुत्रादयः॥ ४५५॥ पुत्र इत्यादयः शब्दाखप्रत्ययान्ता निपात्यन्ते । पुनाति पवते वा पितृपूतिमिति पुत्रः सुतः । यदाहुः। पूतीति नरकस्याख्या दुःखं च नरकं विदुः । पुनामो नरकाचायत इति । व्युत्पत्तिस्तु संज्ञाशम्दानामनेकधा व्याख्यानं लक्षयति || आदिग्रहणादन्येपि ॥ ४५५ ॥
वृग्नक्षिपचिवच्यमिनमिवमिवपिवधियजिपतिकडिभ्योत्रः ॥ ४५६ ॥ ___ एभ्योत्रः प्रत्ययो भवति ॥ वृग्ट वरणे | वरत्रा चर्मरज्जुः ॥ णक्ष गतौ । नक्षत्रमश्विन्यादि । डुपचीं पाके | पचत्रं रन्धनस्थाली । वचंक् भाषणे । वचत्रं वचनम् ॥ अम गतौ | अमत्रं भाजनम् ॥ णमं प्रवत्वे । नमत्रं कर्मारोपकरणम् ॥ टुवमू उहिरणे । वमत्रं प्रक्षेपः।। दुवपी बीजसंताने । वपत्र क्षेत्रम् ॥ वधि बन्धने | वधत्रमायुधं वस्त्रं विषं शूरश्च ॥ यजी देवपूजासंगतिकरणदानेषु । यजत्रो यज्वा | यजत्रमग्निहोत्रम् ।। पतु गतौ । पतत्रं वह वाहनं व्योम च ॥ कडत् मदे । कडनं दाराः। लत्वे । कलत्रं दारा जघनं च ॥ ४५६ ॥
सोविदः कित् ॥ ४५७॥ ___ सुपूर्वात् विदः किदत्रः प्रत्ययो भवति || मुटु वेत्ति विन्दति विद्यते च । सुविद कुटुम्बं धनं मङ्गलं च ॥ ४५७॥
कृतेः कृन्त च ॥ ४५८ ॥ कृतैत् छेदने । इत्यस्मादत्रः प्रत्ययो भवत्यस्य च कृन्त इत्यादेशो भवति॥ कृन्तत्रो मशकः । कृन्तत्रं छेदनं लागलायं च || ४५८॥
बन्धिवहिकट्यश्यादिभ्य इत्रः ॥ ४५९॥ एभ्य इत्रः प्रत्ययो भवति ॥ बन्धंश् बन्धने | बन्धित्रं मन्थः ।। वहीं प्रापणे | वहिनं वाहनं वहनं च || कटे वर्षावरणयोः । कटित्रं लेख्यचर्म || अशौटि व्याप्तौ । अशश् भोजने वा । अशित्रं रश्मिरग्निर्हविरनपानं च || आदिग्रहणात् लुनातेः । लवित्रं कर्मद्रव्यम् ॥ पुनातेः । पवित्रं मङ्गल्यम् ॥ भटतेः । भटित्रं
11
Aho! Shrutagyanam