________________
हेमचन्द्रव्याकरणे
[४६०-४६५ शूले पक्कमांसम् ॥ कडतेः । कडि कटित्रमेव || अमतेः । अमित्रो रिपुः ॥ इत्यादिः ॥ ४५९॥
भूगृवदिचरिभ्यो णित् ॥ ४६० ॥ एभ्यो णिदित्रः प्रत्ययो भवति ॥ भू सत्तायाम् | भावित्रं त्रैलोक्यं निधानं भद्रं च ॥गत् निगरणे । गारित्रं नमोन्नपानमाचार्यच ।। वद व्यक्तायां वाचि । मादित्रमातोद्यम् || चर भक्षणे च । चारित्रं वृत्तं स्थित्यभेदश्च ।। ४६०॥
तनितृलापात्रादिभ्य उत्रः ॥ ४६१॥ एभ्य उत्रः प्रत्ययो भवति ॥ तनूयी विस्तारे | तनुत्रं कवचम् ॥ तृ प्लवनतरणयोः । तरुत्रं प्लवो घासहारी च ॥ लांक आदाने । लोत्रमपहतद्रव्यम् ।। पां पाने | पोत्रं हलसूकरयोर्मुखम् ॥ त्रैड पालने । त्रोत्रममयक्रिया ॥ भादिनहणात् वृणोतेः । वरुत्रमभिप्रेतम् ।। इत्यादयः ॥ ४६१॥
शामाश्याशक्यम्ब्यमिभ्यो लः ॥ ४६२॥ एभ्यो लः प्रत्ययो भवति ॥ शोंच तक्षणे । शाला सभा ॥ मांक माने । माला सक् ॥ इयड् गतौ । श्यालः पत्नीभ्राता ।। शकुंट शक्तौ । शक्लो मनोजर्शनो मधुरवाक् शक्तश्च || अबुड् शब्दे | अम गतौ । अम्बोम्लच रसः ।। ४६२॥
शुकशीमूभ्यः कित् ॥ ४६३॥ एभ्यः किल्लः प्रत्ययो भवति ।। शुक गतौ । शुक्लः सितो वर्णः॥ शीड्क् स्वप्ने । शीलं स्वभावो व्रतं धर्मः समाधिश्च ॥ मूड् बन्धने | मूलं वृक्षपादावयव भादिहेतुश्च ॥ ४६३ ॥
भिल्लाच्छभल्लसौविदल्लादयः॥ ४६४॥ भिल्लादयः शब्दाः किल्लप्रत्ययान्ता निपात्यन्ते । भिदेलश्च । भिल्लोन्त्यजातिः ॥ अच्छपूर्वात् भलेः । अंच्छभल्ल ऋक्षः ॥ सुपूर्वात् विदेर लोन्तः सोश्च वृद्धिः। सौविदल्लः कञ्चुकी || आदिग्रहणात् अल्लपल्लीरलादयोपि भवन्ति ।। ४६४ ॥ मृदिकन्दिकुण्डिमण्डिमणिपटिपाटिशकिकेवृदेवृकमियमिशलिकलि
पलिगुध्वच्चिचञ्चिचपिवहिदिहि कुहितृसृपिशि
___ तुसिकुस्यनिद्रमेरलः ॥ ४६५ ॥ एभ्योलः प्रत्ययो भवति ॥ मृदश् क्षोदे । मर्दलो मुरजः ॥ कदु रोदनामानयोः । कन्दलं प्ररोहः॥ कुडुड् दाहे । कुण्डलं कर्णाभरणम् ।। मडु भूषायाम् ।।
Aho I Shrutagyanam