________________
४४४-४४८]
उणादिगणविवृतिः । तीवरधीवरपीवरछित्वरछत्वरगह्वरोपहरसंयद्वरोदुम्बरादयः ।। ४४४ ॥
एते वरट्प्रत्ययान्ता निपात्यन्ते | तिम्यतेस्ती च तीवतेर्वा । तीवरं जलं व्यञ्जनं च ।। ध्यायते( च । धीवरः कैवर्तः ॥ प्यायः प्यैडो वा पीच पीवतेर्वा किदरः । पीवरो मांसलः ॥ छिनत्तेस्तः किञ्च । छित्वरः शठो जर्जरः पिटकश्च ।। छादेणिलुकि इस्वश्च । छत्वरो निर्भर्त्स को निकुम्नश्च | छत्वरं कुग्रहीनं गृहं शयनप्रच्छदश्छदिश्च ।। गुहेरच्चोतः । गहरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च ।। उपपूर्वात् हो वादेर्लुक् च | उपहरं संधिः समीपं रहःस्थानं च। सम्पूर्वात् यमेर्दश्च । संयवरो रणः संयमी नृपश्च ।। उन्देः किदुम् चान्तः । उदुम्बरो वृक्षविशेषः ॥ आदिग्रहणात् उम्बरशम्बरादयो भवन्ति ।। ४४४ ॥
कडेरेवराङ्गरौ ।। ४४५ ॥ __ कडत् मदे । इत्यस्मादेवर अगर इति प्रत्ययो भवतः ॥ कडेवरं मृतशरीरम् । लत्वे | कलेवरम् ।। कडङ्गरो वनस्पतिः ॥ ४४५ ॥
बट् ॥ ४४६ ।। सर्वधातुभ्यस्त्रट प्रत्ययो भवति ।। छादयतीति छत्रं छत्री वा धर्मवारणम् ।। पातीति पात्रमूर्जितगुणाधारः साध्वादिः । पात्री भाजनम् ॥ स्नायतेः । स्नात्र स्नानम् || राजत इति राष्ट्र देशः ॥ शिष्यतेनेनेति शाखं ग्रन्थः || असूच क्षेपणे ॥ अस्त्रं धनुः ॥ ४४६ ॥
जिभृसृभ्रस्जिगमिनमिनश्यशिहनिविषेर्वृद्धिश्च ॥ ४४७ ॥
एभ्यस्वद् प्रत्ययो [ भवति ] वृद्धिश्चैषां भवति ॥ जिं अभिभवे । जैत्रो जयनशीलः । जैत्रं द्यूतम् ॥ टुडुमँगक पोषणे च । मात्र पोषो यश्च भृतिं गृहीत्वा वहति || सं गतौ । साप्रमालयः ।। भ्रस्जीत् पाके । भ्राष्ट्रमम्बरीषम् ।। गमं गतौ । गान्त्रं मनः शरीरं लोकश्च ।। णमं प्रहत्वे | नान्त्रं शिरः शाखा वैचित्र्यं च ॥ नशौच अदर्शने । नशो धुटीति त्रोन्तः । नाष्ट्रा यातुधानाः ॥ अश्रोतेरभातेर्वा । आष्ट्रमाकाशो रश्मिथ ॥ हनंक हिंसागत्योः हान्नं रक्षो युद्धं धधश्च ।। विषूकी व्याप्तौ । वेष्टो विष्णुर्वायुश्च । वैष्; यकृत्रिदिवं वेश्म च ॥ ४४७ ॥
दिवेधी च ॥ ४४८ ॥ दीव्यतेस्खट् प्रत्ययो [भवति ] यो चास्यादेशो भवति ॥ चौत्रं त्रिदिवं ज्योतिर्विमानं प्रमाणं प्रतोदश्च ॥ ४४८ ॥
Aho ! Shrutagyanam