________________
हेमचन्द्रव्याकरणे
[ ४४०-४४३
` शं च | अक्षेर्वारेरूपम् || वसं निवासे | वत्सरः संवत्सरः परिवत्सरोनुवत्सरोसंवत्सरो विवत्सर उद्वत्सरो वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालावया इति | इवत्सरः । इडया मानेन वसन्त्यत्र वा । इडावत्सरो वर्षविशेषाभिधाने || परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके || कि इत्यदादौ स्मरन्ति । केसरः सिंहसट: पुष्पावयवो वकुलच । बाहुलकान्न षस्वम् || ४३९ ॥ कृधूतन्यृषिभ्यः कित् || ४४० ||
૭૬
एभ्यः कित्सरः प्रत्ययो भवति || डुकुंग् करणे | कृसरः कृसरा वा विलेपिकाविशेषो वर्णविशेषश्च ॥ धूत् विधूनने । धूमरो भिन्नवर्णो वायुर्धान्यविशेषश्व || तनूयी विस्तारे | तसरः कौशेयसूत्रम् || ऋषैत् गतौ । ऋक्षरः कण्टक ऋत्विक् च । ऋक्षरा तोयधारा || ४४० ॥
कृगृगृदृवृग्चतिखटिकटिनिषादभ्यो व्रट् || ४४१ ॥
एभ्यष्टिद्वरः प्रत्ययो भवति || कृत् विक्षेपे । कर्बरो व्यात्रो विष्किरोऽञ्जलिश्व | कर्बरी भूमिः शिवा च ॥ गृत् निगरणे | गर्वरोहंकारो महिषश्च । गर्वरी महिषी संध्या च ॥ शृश् हिंसायाम् | शर्वरः सायाह्नो रुद्रो हिंस्रव । शर्वरं तमोन्नं च | शर्वरी रात्रिः || दृश् विदारणे | दर्वरं वज्रम् । दर्वरी सेवा || वृग्ट् वरणे | वर्त्ररः कामश्चन्दनं केशविशेषो लुब्धकथ | वर्वरी नदी मार्या च ॥ चतेग् याचने । चत्वरं चतुष्पथ मरण्यं च । चत्वरी रथ्या देवता वेदिश्व ॥ खट काङ्के । खट्टरं रससंकीर्णशाकपाकः || कटे वर्षावरणयोः । कट्टुरो व्यालाश्वः || कटुरी दधिविकारः || षट्टं विशरणादौ । निपूर्वात् । निषहर: कर्दमो वह्निः कर्मकरः कन्दर्प इन्द्रश्च । निषइरमासनम् । निषवरी मपा रात्रिः प्रमदेन्द्राणी च ॥४४१ || अनोतेरीच्चादेः || ४४२ ॥
अशौटि व्याप्तौ । इत्यस्माद्दरट् प्रत्ययो [ भवति ] ईकारश्वादेर्भवति || ईश्वरो विभुः । ईश्वरी स्त्री ।। ४४२ ।।
नीमकुतुवेर्दीर्घश्व || ४४३ ॥
एभ्यो वरट् प्रत्ययो [ भवति ] दीर्घश्चैषां भवति || णींग् प्रापणे | नीवरः पुरुषकारः || मींग्श् हिंसायाम् | मीवरो हिंस्रः समुद्रश्व || कुंड् शब्दे । कूवसे रथावयवः ।। तुंक् वृत्यादौ । सूत्ररो मन्दश्मश्रुरजननीकश्व || चिंग्ट् चयने । चीवरं मुनिजनवासो निःसारकन्या च ॥ ४४३ ॥
Aho! Shrutagyanam