________________
७४
हेमचन्द्रव्याकरणे
[४१९-४२३ घसिवशिपुटिकुरिकुलिकाभ्यः कित् ।। ४१९ ।। एभ्यः किदीरः प्रत्ययो भवति ॥ घसं अदने । क्षीरं दुग्धं मेघश्च ।। वशक् कान्ती | उशीरं वीरणीमूलम् ।। पुटत् संश्लेषणे | पुटीरः कूर्मः ।। कुरत् शब्दे | कुरीरं मैथुनं वेश्म च । कुरीरो मालाविशेषः कम्बलश्च ॥ कुल बन्धुसंस्त्यानयोः । कुलीरः कर्कटः ॥ मैं शब्दे | कीरः शुकः काश्मीरकश्च ॥ ४१९ ॥
कशेर्मोन्तश्च ॥ ४२० ।। कश शब्दे । इत्यस्मात्तालव्यान्तादीरः प्रत्ययो भवति ]मश्चान्तो भवति । कश्मीरा जनपदः ।। ४२० ॥
वनिवपिभ्यां णित् ॥ ४२१ ॥ आभ्यां णिदीरः प्रत्ययो भवति ॥ वन भक्तौ । वानीरो वेतसः ॥ डुवपी बीजसंताने । वापीरो मेघोमोघनिष्पत्ति च क्षेत्रम् ॥ ४२१ ॥ जम्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीर
किर्मीरादयः ।।४२२॥ एत ईरप्रत्ययान्ता निपात्यन्ते ।। जनेऊन्तश्च । जम्बीरो वृक्षविशेषः ॥ आमोतेर्भश्व | आभीरः शूद्रजातिः ॥ गर्भः स्वरानस्तु वा । गभीरोगाधोचपलश्च । गम्भीरः स एव । स्कुम्भः सौवात्सलोपश्च । कुम्भीरो जलचरः ॥ भडुङ् परिभाषणे । अस्य नलुक् च वा । मडीरो भण्डीरश्च योद्धृवचने ॥ डीडो डित् । द्विस्वं पूर्वस्य नोन्तश्च । डिण्डीरः फेनः ॥ किरो मोन्तश्च । किर्मीरः कर्बुरः॥ आदिमहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ।। ४ २२।। वाइयसिवासिमसिमथ्युन्दिमन्दिचतिचक्यङ्किकविच
किबन्धिभ्य उरः ॥ ४२३ ॥ एभ्य उरः प्रत्ययो भवति ॥ वाशिच् शब्दे । वाशुरःशकुनिर्गर्दभश्च । वाशुरा रात्रिः॥ असूच क्षेपणे । असुरो दानवः । वासण उपसेवायाम् । वासुरा रात्रिः॥ मसैच् परिणामे । मसुरा पण्यस्त्री । मसुरं चर्मासनं धान्यविशेषश्च ॥ मथे विलोडने । मथुरा नगरी ॥ उन्दैप् क्लेदने | उन्दुरो मूषिकः ॥ मदु स्तुत्यादौ । मन्दुरा वाजिशाला || चतेग याचने । चतुरो विदग्धः ।। चङ्किः सौत्रः । चङ्कति चेष्टते। चङ्कुरो रथोनवस्थितश्च ।। अकुड् लक्षणे । अङ्करः प्ररोहस्तरुपतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनारीर्घवे । अङ्करः॥ कर्व गतौ । कर्बुरः शबलः ।।
Aho I Shrutagyanam