________________
हेमचन्द्रव्याकरणे
(४०९-४१४ कमेरत उच्च ॥ १०९॥ कमूड् कान्तौ । इत्यस्मादारः प्रत्ययो [ भव ] त्यकारस्य च उकारो भवति ॥ कुमारो महासेनोभ्रष्टो बालश्च ।। ४०९ ।।
कनेः कोविदकर्बुदकाञ्चनाश्च ॥ ४१० ॥ कनै दीयादौ । इत्यस्मादारः प्रत्ययो भव ]त्यस्य च कोविद कर्बुद काञ्चन इत्यादेशा भवन्ति ॥ कोविदारः । कर्बुदारः । काञ्चनारश्च वृक्षविशेषाः ॥ ४१० ॥ __द्वारशृङ्गारभृङ्गारकहारकान्तारकेदारखारडादयः ॥ ४११॥
एत आरप्रत्ययान्ता निपात्यन्ते ।। उभत् पूरणे | द्वादेशच । द्वारं द्वाः ॥ प्रयतेस्तालव्यादिः शृङ्गश्च । शृङ्गारो रसविशेषो विदग्धता च || भृगो भृङ्ग च । भृङ्गारो हस्तिमुखाकारगलन्तिका ॥ कलेहश्च स्वरात्परः । कहारमुत्पलविशेषः ॥ कमेस्तोन्तो दीर्घश्च । कान्तारमरण्यम् ।। कदेः सौत्रस्यात एच । केदारो वप्रः ।। खडिच्च । खारी चतुद्रोणम् । खारडिति टकारो ड्यर्थः ।। आदिग्रहणात् शिशुमारादयोपि भवन्ति ।। ४११॥
मदिमन्दिचन्दिपदिखदिसहिवहिकुसृभ्य इरः || ४१२ ॥
एभ्य इरः प्रत्ययो भवति || मदैच् हर्षे । मदिरा सुरा ॥ मदुड् स्तुत्यादौ । मन्दिरं वेश्म नगरं च || चदु दीप्याहादयोः । चन्दिरश्चन्द्रमा हस्ती च । चन्दिरं चन्द्रिकावज्जलं च ॥ पदिंच गतौ | पदिरो मार्गः ।। खद हिंसायां च । खदिरो वृक्षविशेषः ।। षहि मर्षणे । सहिरः पर्वतः ॥ वहीं प्रापणे । वहिरो बलीवर्दः ।। कुंक् शब्दे । कविरोक्षिकोणः ॥ तूं गतौ । सरिरं जलम् । लत्वे । सलिलम् ॥ ४१२॥
शवशरिचातः ॥४१३॥ आभ्यामिरः प्रत्ययो भव]त्यकारस्य च इकारो भवति ॥ शव गतौ । तालव्यादिः । शिविरं सैन्यसंनिवेशः ॥ शश लुतिगतौ । शिशिरं शीतलमृतुश्च
श्रन्थेः शिथ् च ॥ ४१४ ॥ अथुड शैथिल्ये । इत्यस्मादिरः प्रत्ययो भव त्यस्य च शिथ् इत्यादेशो भवति ॥ शिथिर अथम् | लत्वे । शिथिलम् ॥ ४१४ ॥
Aho I Shrutagyanam