________________
४०४-४००
उणादिगणविवृतिः। कुन्चरो हस्ती ।। अजेरगवान्तो वीभावाभावश्च | अजगरः शयुः ।। आदिग्रहणात् कोठराडारशाङ्गरपाण्डरवानरादयो भवन्ति ।। ४०३ ॥
मुदिगूरिभ्यां टिद्गजौ चान्तौ ॥ ४०४ ।। आभ्यां टिदरः प्रत्ययो [ भवति ] गकारजकारौ च यथासंख्यमन्तौ भचतः ॥ मुदि हर्षे । मुद्रः प्रहरणविशेषः । मुद्री बी ।। गुरैचि गतौ । गूर्जरः सौराष्ट्रादिः । गूर्जरी स्त्री ।। ४०४ ॥ अग्यङ्गिमदिमन्दिकडिकसिकासिमजिकञ्जिकलिमलिक
चिभ्य आरः ।। ४०५॥ एभ्य आरः प्रत्ययो भवति ।। अग कुटिलायां गतौ । अगारं वेश्म ।। अगु गती । अङ्गारो निर्वातज्वालो निर्वाणवोल्मुकावयवो भूमिसुत्तश्च ॥ मदैच् हर्षे । मदारः पानशौण्डो वराहो हस्त्यलसच ॥ मदुइ स्तुत्यादौ । मन्दारो वृक्षविशेषः॥ कडन् मदे । कडारः पिङ्गलो विषमदशनश्च ॥ कस गतौ । कसारो हिंस्रः।। कामृड् शब्दकुत्सायाम् । कासारः पल्वलम् ॥ मृजौक शुद्धौ । मार्जारो विडालः || कञ्जिः सौत्रः । कारः कुसूलजातियूपो व्यञ्जनं च ।। कलि शब्दसंख्यानयोः । कलारो विषमरूपः।। मलि धारणे । मलारोलसः । मलमिवारातो दोस्येति [?] वा मलारः ॥ कचि बन्धने । कचारोपनेयतृणबुसपांशुविकारः ॥ ४०५ ॥
त्रः कादिः ॥ ४०६॥ तृ प्लवनतरणयोः । इत्यस्मात्ककारादिरारः प्रत्ययो भवति || तर्कारी वृक्षः ॥ ४०६ ॥
कृगो मादिश्च ॥ ४०७॥ करोतेर्मकारादिः ककारादिवारः प्रत्ययो भवति ॥ कर्मारो लोहकारः ।। कर्कारो वृक्षः ॥ ४०७ ॥
तुषिकुठिभ्यां कित् ।। ४०८ ॥ आभ्यां किदारः प्रत्ययो भवति ॥ तुषंच तुष्टौ | तुषारो हिमम् ॥ कुठिः सौत्रः । कुठारः परशुः ॥ ४०८॥
Aho! Shrutagyanam