________________
३९८-३९९]
उणादिगणविवृतिः । . चट वेष्टने । वटरो मधुकण्डरा । कुटत् कौटिल्ये । कोटरं छिद्रम् । बाहुलकाद्गुणः ॥ कठ कृच्छजीवने । कठरो दरिद्रः। वट स्थौल्ये । वठरो मूल् बृहवेहश्च ॥ मठ मदनिवासयोश्च । मठर ऋषिरज्ञानी गोत्रमलसश्च ।। अड उद्यमे । अडरो वृक्षः ॥ शीकृड् सेचने । शीकरो जललवसेकः ॥ शीभृड् कत्थने । शीभरो हस्तिहस्तमुक्तो जललवसेकः।। कदिः सौत्रः । कदरो वृक्षविशेषः ॥ बद स्थैर्ये । बदरी फलवृक्षः ॥ कदुड् वैक्लव्ये । कन्दरो गिरिगतः ॥ मनुड् स्तुत्यादौ | मन्दरः शैलः ॥ सुन्दिः सौत्रः शोभायाम् । सुन्दरो मनोज्ञः ॥ मन्थश् विलोडने । मन्थरो मन्दः खर्वश्च ॥ मञ्जिपञ्जी सौत्रौ । मञ्जर्याम्रादिशिखा | गौरादित्वाड्डीः ।। पञ्जरः शुकायवरोधसन । पिजुण् हिंसाबलदाननिकेतनेषु | पिचरः पिशङ्गः ।। कमूड् कान्तौ । कमरो मूर्खः कार्मुकं कोमलचौरः कान्तश्च ॥ षम वैक्लव्ये । समरः संग्रामः ॥ चमू अदने | चमर आरण्यपशुः ।। टुवमू उद्गिरणे । वमरो दुर्मेधाः ॥ भ्रमूच् अनवस्थाने । भ्रमरः षट्पदः ॥ अम गतौ । अमरः सुरः।। देघृड् देवने । देवरः पत्यनुजः ॥ वसं निवासे । णौ । वासरी दिवसः कामोनिः प्रावृट् च । अन्ये वाशिच् शब्दे । इत्यस्मादपि तालव्यान्तादिच्छन्ति | वाशरोनि#घो दिवसथ || कासृड् शब्दकुत्सायाम् । कासरो महिषः।। क् गतौ । भररः कपाटो बुधो भ्रमणो गृहं हरणं शलाका च || जीव प्राणधारणे । जीवरो दीर्घायुः॥ बर्व गतौ । बर्बरो मेच्छ जातिः। बर्बरी कुञ्चिताः केशाः ॥ कुंक् शब्दे । कबरो वर्णः । कबरी वेणिः ॥ शुं गतौ । शबरो मेच्छजातिः । शव गतौ | इत्यस्यान्ये ॥ टुट उपतापे । दवरी गुणः ।। ३९७ ॥
अवेर्ध च वा ॥ ३९८ ॥ अव रक्षणादौ । इत्यस्मादरः प्रत्ययो [ भवति ] धकारश्चान्तादेशो वा भवति ॥ अधरो हीन उपरिभावस्य प्रतियोगी दन्तच्छदश्च ॥ अवरः परप्रतियोगी ॥ ३९८ ॥
मृधुन्दिपिठिकुरिकुहिभ्यः कित् ।। ३९९ ॥ एभ्यः किदरः प्रत्ययो भवति || मृदश् क्षोदे । मृदरो व्याधिरतिकायः क्षोदश्च ।। उन्दैप् क्लेदने । उदरं जठरं व्याधिश्च ।। पिठ हिंसासंक्लेशयोः । पिठरं भाण्डम् ॥ कुरत् शब्दे । कुररो जलपक्षिजातिः ॥ कुहणि विस्मापने । कुहरं गम्भीरगतः ॥ ३९९ ॥
Aho ! Shrutagyanam