________________
३९०-३९५]
उणादिगणविवृतिः। चुम्बिकुम्बितुम्बेर्नलुक् च ।। ३९० ॥ एभ्यः किद्रः प्रत्ययो भवति नकारस्य चैषां लुग्भवति ॥ चुबु वक्त्रसंयोगे। चुनं वक्त्रम् । चुबो रश्मिः ॥ कुबु आच्छादने । कुब्र संकटं भग्नपृष्टः फल्गुहस्वी चर्म गृहाच्छादनं च ॥ तुबु अर्दने । तुजं कुटिलम् ॥ ३९ ॥
भन्देर्वा ॥ ३९१ ॥ ___ भटुड् मुखकल्याणयोः । इत्यस्माद्रः प्रत्ययो [भवति नकारस्य च लुग्वा भवति ॥ भद्रं भन्द्रं च कल्याणं सुखं च ॥ ३९१ ॥
_चिजिशुसिमितम्यम्यर्देर्दीर्घश्च ॥ ३९२ ॥ __ एभ्यो रः प्रत्ययो भवति] दीर्घश्चैषां भवति ॥ चिंग्ट् चयने । चीर जीर्ण. वस्त्रं वल्कलं च || जिं अभिभवे । जीरोजाज्यग्निर्वायुरश्वश्च । जीरमन्नम् । लत्वे । जीलचर्मपुटः ॥ शुं गतौ । शूरो विक्रान्तः ॥ किंग्ट् बन्धने । सीरं हलम् । सीरा हलविलेखिता लेखा । डुमिंग्ट प्रक्षेपणे । मीरः समुद्रः । मीरं जलम् । मीरा मांस्पचनी देवसीमा च ॥ तमूच काङ्क्षायाम् ॥ ताम्रो वर्णः शुल्वं च ।। अम गतौ | आम्रो वृक्षः ॥ अर्द गतियाचनयोः । आई सरसम् ।। ३९२ ॥
चकिरमिविकसेरुच्चास्य ।। ३९३ ।। चकिरमिभ्यां विपूर्वाञ्च कसे रः प्रत्ययो भव ]त्यकारस्य चैषामुकारो भवति ॥ चकि तृप्तिप्रतीघातयोः । चुक्रोम्लो रसो बीजपूरकमिञ्जिकासुरो निमन्त्रणं च ॥ रमि क्रीडायाम् । रुनः सुन्दर आदित्यसारथिब्राह्मणो विनाशश्च । कस गतौ । विकुस्रश्चन्द्रः समुद्रश्च । विकुखं पुष्पितम् । बाहुलकादिक सेर्विकल्पः । विकनः ॥ ३९३ ॥
शदेरूश्च ।। ३९४ ॥ शहूँ शातने । इत्यस्माद्रः प्रत्ययो भवत्यकारस्य च ऊकारो भवति । शूद्रश्चतुर्थो वर्णः ॥ ३९४ ॥ .
कृतेः क्रूकृच्छौ च ॥ ३९५ ॥ कृतैत् छेदने । इत्यस्माद्रः प्रत्ययो भव त्यस्य च क्रू कृच्छ्र इत्यादेशी भवतः ।। क्रूरममृदु । क्रूरः पापकर्मा | कृच्छं दुःखम् ।। ३९५ ॥
Aho! Shrutagyanam