________________
३८५-३८८]
उणादिगणविवृतिः।
वार्थभ्यामुष्यः ॥ ३८५ ॥ आभ्यामुष्यः प्रत्ययो भवति ॥ वचं भाषणे । वचुष्यो वक्ता ॥ अर्थणि उपयाचने | अर्युष्योर्थी ॥ ३८५ ।।
वचोथ्य उत् च ॥ ३८६॥ वचं भाषणे । इत्यस्मादथ्यः प्रत्ययो भव ]त्यस्य च उत् इत्यादेशो भवति ॥ उतथ्य ऋषिः ॥ ३८६ ।। भीवधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिच
न्दिदसिघसिनसिहस्यसिवाशिदहिसहिभ्यो रः ॥ ३८७ ॥
एभ्यो रः प्रत्ययो भवति ॥ विभीक् भये । भेरो भेदः करभः शरो मण्डूको दुन्दुभिः कातरश्च । ऋफिडादित्वाल्लत्वे । भेलश्चिकित्साग्रन्थकारः शरो मण्डकः प्रहीणोप्राज्ञश्च ॥ वृधूड् वृद्धौ । वर्धश्चर्मविकारश्चन्द्रो मेघश्च ॥ रुधूपी आवरणे । रोधो वृक्षविशेषः।। वज गतौ । वचं कुलिशं रत्नविशेषश्च ॥ अग कुटिलायां गतौ । अयः प्राग्भागः श्रेष्ठश्च ॥रमिं क्रीडायाम् । रम्रः कामुकः ।। टुवमू उद्गिरणे | वम्रो धर्मविशेषो धूमश्च । वम्युपदेहिका ॥ डुवी बीजसंताने | वप्रः केदारः प्राकारो वास्तुभूमिश्च ।। जप मानसे च | जपो ब्राह्मणो मण्डूकश्च । शकुंट शक्तौ । शक इन्द्रः।। स्फायैड् वृद्धौ । स्फारमुल्वणं प्रभूतं च ॥ वदुड् स्तुत्यभिवादनयोः । वन्द्रो बन्दी केतुः कामश्च । चन्द्रं समूहः॥ इदु परमैश्वर्ये । इन्द्रः शक्रः ।। पदिच् गतौ । पद्रं ग्रामादिमिवेशः शून्यं च ॥ मदैच् हर्षे । मद्रा जनपदः क्षत्रियश्च । मद्रं सुखम् ॥मदुड् स्तुत्यादिषु । मन्द्रो मधुरस्वरः । मन्द्रं गम्भीरम् || चदु दीप्त्या हादयोः । चन्द्रः शशी सुवर्ण च ॥ दसूच् उपक्षये | दस्रः शिशिरं चन्द्रमा अश्विनोज्येष्ठश्च । दस्रावश्विनौ ॥ घसं अदने | घस्रो दिवसः ॥ णसि कौटिल्ये । नसो नासिकापुट ऋषिश्च ।। हसे हसने । हलो दिनं घातको हर्षुलश्च । हसं बलाधानं संनिपातश्च | सहस्रं दश शतानि ॥ असूच क्षेपणे । अनमश्रु || वाशिच् शब्दे । वाश्रः पुरुषः शब्दः संघातः शरभो रासभः पक्षी च । वात्रा धेनुः ॥ दहं भस्मीकरणे । दहोनिः शिशुः सूर्यच ॥ पहि मर्पणे । सहः शैलः ॥ ३८७ ॥ ऋज्यजितञ्चिवञ्चिरिपिसृपितृपिदृपिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिछिदिभिदिखिद्युन्दिदम्भिशुभ्युम्भिदंशिचिसिवहिविसिवसिशुचिसिधि
गृधिवीन्धिश्चितिवृतिनीशीसुसूभ्यः कित् ॥३८८।। एभ्यः किन्द्रः प्रत्ययो भवति || शनि गतिस्थानार्जनोजनेषु । ऋचो नाय
Aho! Shrutagyanam