________________
६४
हेमचन्द्रव्याकरणे
[३७७-३८४ मृजेर्णालीयः ॥ ३७७ ।। मृजौक शुद्धौ | इत्यस्माणिदालीयः प्रत्ययो भवति || मार्जालीयं पापशोधनम् । मार्जालीयोमिः ॥ मृजोस्य वृद्धिरिति वृद्धिः । णकार उत्तरार्थः ॥ ३७७ ॥
वेतेस्तादिः ॥ ३७८ ॥ वींक प्रजननादौ । इत्यस्मात्तकारादिणिदालीयः प्रत्ययो भवति ॥ वैतालीयं छन्दोजातिः ॥ ३७८ ॥
धाग्राजिगृरमियाज्यर्तेरन्यः ॥ ३७९ ।। एभ्योन्यः प्रत्ययो भवति ॥ डुधांग्क् धारणे च | धान्यं सस्य जातिः ॥ राजग दीप्तौ । राजन्यो ज्योतिरनिः क्षत्रियच ॥ शृश् हिंसायाम् । शरण्यस्त्राता || रमि क्रीडायाम् । रमण्यं शोभनम् ॥ यजी देवपूजादौ । णौ । याजन्यः क्षत्रियो यज्ञश्च ।। क् गतौ । अरण्यं वनम् ॥ ३७९ ॥
हिरण्यपर्जन्यादयः ॥ ३८० ॥ . हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते ॥ हरतेरियातः । हिरण्यं सुवर्णादिद्रव्यम् ॥ परिपूर्वस्य पृष् सेचने । इत्यस्योपसर्गान्तलोपो था- . तोश्च जः समस्तादेशः । गर्जतेर्वा गकारस्य पकारः । पर्जन्य इन्द्रो मेघः शङ्कः पुण्यं कुशलं च कर्म । आदिशब्दादन्येपि ॥ ३८० ॥
वदिसहिभ्यामान्यः ॥ ३८१ ॥ आभ्यामान्यः प्रत्ययो भवति ॥ वद व्यक्तायां वाचि । वदान्यो दाना गुणवाश्चारुभाषी च ॥ षहि मर्पणे | सहान्यः शैलः ॥ ३८१ ॥
वृड एण्यः ॥ ३८२ ॥ वृड्श संभक्तौ । इत्यस्मादेण्यः प्रत्ययो भवति ॥ वरेण्यः परं ब्रह्म धाम श्रेष्ठः प्रजापतिरन्नं च ॥ ३८२ ॥
मदेः स्यः ॥ ३८३ ॥ मदैच् हर्षे । इत्यस्मात्स्यः प्रत्ययो भवति ॥ मत्स्यो मीनो धूर्तथ॥३८३॥
रुचिभुजिभ्यां किष्यः ॥ ३८४ ॥ आभ्यां किदिष्यः प्रत्ययो भवति ॥ रुचि अभिप्रीत्यां च । रुचिष्यो वल्लभः सुवर्ण च ॥ भुजंप पालनाभ्यवहारयोः । भुजिष्य आचार्यो भोक्तानं मृहोदनो दासश्च । भुजिष्यं धनम् ॥ ३८४ ॥
Aho I Shrutagyanam