________________
G
हेमचन्द्रव्याकरणे
[३२८-३३५ इणः कित् ॥ ३२८ ॥ इणक् गतौ | इत्यस्मात्किद्भः प्रत्ययो भवति ॥ इभो हस्ती || ३२८ ॥ कृशगृशलिकलिकडिदिरासिरमिवडिवल्लेरभः || ३२९ ।।
एभ्योभः प्रत्ययो भवति ॥ कृत् विक्षेपे | करभस्त्रिवर्ष उष्ट्रः ।। शृश् हिंसायाम् । शरभः श्वापदविशेषः ॥ गृत् निगरणे । गरभ उदरस्थो जन्तुः ।। पल फल शल गतौ । शलभः पतंगः ।। कलि शब्दसंख्यानयोः । कलभो हस्ती यौवनाभिमुखः ।। कडत् मदे । कडभो हस्तिपोतकः ।। गर्द शब्दे । गर्दभः खरः ।। रासड् शब्दे | रासभः स एव ।। रमिं क्रीडायाम् । रमभः प्रहर्षः ।। वडः सौवः । वडभी वेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे | वलभी ।। वल्लि संवरणे । वल्लभः स्वामी दयितश्च ।। ३२९ ॥
सडित् ।। ३३० ॥ पन भक्तौ । इत्यस्मादिभः प्रत्ययो भवति ॥ सभा परिषच्छाला च ।। ३३० ॥
ऋषिवृषिलुसिभ्यः कित् ।। ३३१ ॥ एभ्यः किदभः प्रत्ययो भवति ॥ ऋषैत् गतौ । वष सेचने | ऋषभो वृषभश्व पुङ्गवो भगवांश्वादितीर्थकरः । ऋषभो वायुः ।। लुसिः सौत्रः । लुसभी हिंस्रो मत्तहस्ती वनं च ।। ३३१ ॥
सिटिकिभ्यामिभः सैरटिट्टौ च ॥ ३३२ ॥ आभ्यामिभः प्रत्ययो [ भवति ] दन्त्यादिः सैर: टिट्टश्चादेशौ यथासंख्य भवतः ॥ किंग्ट् बन्धने । सैरिभो महिषः ।। टिकि गतौ । टिभिः पक्षी ||३३२॥
करुभः ॥ ३३३ ॥ ककि लौल्ये । इत्यस्मादुभः प्रत्ययो भवति ।। ककुभोर्जुनः ।। ३३३ ॥
कुके कोन्तश्च ।। ३३४ ॥ कुकि आदाने | इत्यस्मादुभः प्रत्ययो [ भवति ] ककारश्चान्तो भवति ।। कुक्कुभः पक्षिविशेषः ॥ ३३४ ॥
दमो दुण्ड् च ॥ ३३५॥ दमूच् उपशमे । इत्यस्मादुभः प्रत्ययो [ भव ] त्यस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशो भवति ॥ दुण्डुमो निर्विषाहिः ॥ ३३५ ॥
Aho 1 Shrutagyanam