________________
३२२ ३२७]
उणादिगणविवृति: ।
५५
वरणयोः | कटम्बः पक्कान्नविशेषो वादित्रं च || कडम्बकटम्बी वृक्षौ च ॥ वट
वेष्टने | वटम्बः शैलस्तृणपुञ्जश्र || ३२१ ।।
कर्णai || ३२२ ॥
कद वैक्लव्ये । इति सौत्रादम्बः प्रत्ययो [ भवति ] स च णिद्दा भवति || कादम्बो हंसः || कदम्बो वृक्षजातिः || ३२२ ।। शिलविलादेः कित् ॥ ३२३ ॥
शिलादिभ्यः किदम्बः प्रत्ययो भवति ।। शिलत् उच्छे | शिलम्ब ऋषिस्तन्तुवायश्च || विलत् वरणे । विलम्बो वेषविशेषो रङ्गावसरश्च || आदिग्रहणादन्येपि || ३२३ ॥
हिण्डिविले: किम्बो नलुक् च ॥ ३२४ ॥
आभ्यां किदिम्बः प्रत्ययो [भवति ] नस्य च लुग्भवति || हिडुड् गतौ च | विलत् वरणे | हिडिम्बो विलिम्बश्च राक्षसौ || ३२४ ॥
डीनीवन्धिगृधिचलिभ्यो डिम्बः || ३२५ ||
एभ्यो डिदिम्बः प्रत्ययो भवति || डीड् विहायसां गतौ । डिम्बो राजोपद्रवः || णोंग् प्रापणे । निम्बो वृक्षविशेषः || बन्धंश् बन्धने । बिम्बं प्रतिच्छन्दको देहश्च | बिम्बी वल्लिजाति: || शृधुड् शब्दकुत्सायाम् | शिम्बो मृगजातिः । शिम्बी निष्पाववल्ली च || चल कम्पने | चिम्बा यवागूजातिः || ३२५ ।।
कुट्युन्दि चुरितुरिपुरिमुरिकुरिभ्यः कुम्बः || ३२६ ||
एभ्यः किदुम्बः प्रत्ययो भवति || कुटत् कौटिल्ये | कुटुम्बं दारादयः || उदैप् क्लेदने | उदुम्बः समुद्रः || चुरण् स्तेये | तुर त्वरणे सौत्रः । चुरुम्वस्तुरुम्बश्च गहनम् || पुरत् भग्रगमने | पुरुम्ब आहार : || मुरत् संवेष्टने | मुरुम्बो मृद्यमानपाषाणचूर्णम् || कुरत् शब्दे । कुरुम्बाङ्कुरः । निपूर्वात् । निकुरुम्बो राशिः ।। ३२६ ॥
गृदृरमिहनिजन्यर्तिदलिभ्यो भः || ३२७ ||
एभ्यो भः प्रत्ययो भवति ॥ गृत् निगरणे | गर्भो जठरस्थप्राणी ॥ दृश् विदारणे | दर्भः कुशः || रमिं क्रीडायाम् । रम्भाप्सराः कदली च ॥ हनंक् हिंसागत्योः । हम्भा गोधेनुनाद: || जनैचि प्रादुर्भावे | जम्भो दानवो दन्तश्च | जम्भा मुखविदारणम् || ऋक् गतौ । भर्भः शिशुः || दलण् विदारणे | दल्भ ऋषिर्वल्कलं विदारणं च
३२७ ॥
Aho! Shrutagyanam