________________
५४
हेमचन्द्रव्याकरणे
रीशीभ्यां फः ॥ ३१४ ॥ आभ्यां फः प्रत्ययो भवति ।। रांड्च् स्रवणे । रेफः कुत्सितः ।। शीड्क् स्वमे | शेफो मेण्डः ।। ३१४ ॥
कलिगलेरस्योच ॥ ३१५ ॥ आभ्यां फः प्रत्ययो [ भवत्यस्य च उकारो भवति ।। कलि शब्दसंख्यानयोः । गल अदने । कुल्फो गुल्फश्च जङ्घाहिसंधिः । गुल्फः पादोपरिग्रन्थिः ।। ३१५ ॥
शफकफशिफाशोफादयः ॥ ३१६ ॥ शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते ।। श्यतेः कायतेश्च हस्वश्च । शफः खुरः प्रियंवदथ ।। कफः श्लेष्मा || श्यतेरित्वमोत्वं च | शिफा वृक्षजटा। शोफः श्रयथुः खुरश्च ॥ आदिशब्दात् रिफानफासुनफादयो भवन्ति ।। ३१६ ।।
वलिनितनिभ्यां बः ॥३१७॥ बलि संवरणे । निपूर्वाच्च तनूयी विस्तारे | इत्याभ्यां बः प्रत्ययो भवति ।। वल्वो वृक्षः ॥ नितम्बः श्रोणिः पर्वतैकदेशो नटश्च ।। ३१७॥
शम्यमेणिद्वा ।। ३१८ ॥ ___ आभ्यां बः प्रत्ययो [भवति ] स च णिवा भवति ॥ शमूच् उपशमे । शम्बो वचः कर्षणविशेषो वेणुदण्डस्तोत्रमरित्रं च ॥ शम्बशाम्बी जाम्बवतेयौ ।। अम गतौ | अम्बा माता | आम्बोपह्नवः ।। ३१८ ॥
शल्यलेरुच्चातः।।३१९।। आभ्यां बः प्रत्ययो भवत्यकारस्य च उकारो भवति ॥ पल फल शल गतौ। शुल्वं ताम्रम् || अली भूषणादौ | उल्वं रजतं गर्भवेष्टनम् || शुल्वं बभ्रस्तरक्षुश्च ।। ३१९ ॥
तुम्बस्तम्बादयः ।। ३२० ॥ तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते ।। ताम्यतेरत उत्वं च | तुम्बमलाबु चक्राङ्गं च ॥ स्तम्भेर्लुक् च | स्तम्बस्तृणं विटप: संघातोङ्करसमुदायः स्तबकः पुष्पापीडश्च ।। आदिशब्दात् कुशाम्वादयो भवन्ति ॥ ३२०॥
कृकडिकटिवटेरम्बः ।। ३२१ ॥ एभ्योम्बः प्रत्ययो भवति ।। डुकंग करणे | करम्बो दध्योदनो दधिसक्तवः पष्पं च । कडत् मदे । कडम्वो जातिविशेषो जनपदविशेषश्च ॥ कटे वर्षा
Aho 1 Shrutagyanam