________________
३०६ -३१३]
उणादिगणविवृतिः । विट शब्दे । विटपः शाखा ॥ कुणत् शब्दोपकरणयोः। कुणपो मृतकं कुषितं शब्दार्थसारूप्यं च ॥ कुषश् निष्कर्षे । कुषपो विन्ध्यः संदंशश्च || उषू दाहे | उषपो दाहः सूर्यो वह्निश्च ।। ३०५ ॥
शंसेः श इन्चातः ॥ ३०६ ।। शंसू स्तुतौ च । इत्यस्मादपः प्रत्ययो [ भवति ] तालव्यशकारान्तादेशोकारस्य च इकारो भवति ॥ शिंशपा वृक्षविशेषः ॥ ३०६ ॥
विष्टपोलपवातपादयः ॥ ३०७ ॥ विष्टपादयः शब्दाः किदपप्रत्ययान्ता निपात्यन्ते ।। विषेस्तोन्तश्च । विष्टप जगत्सुकृतिनां स्थानं च || बलेरुल च । उलपं पर्वततणं पङ्कजं जलं च । उलप ऋषिः । वातेस्तोन्तश्च | वातप ऋषिः ।। आदिग्रहणात् खरपादयोपि भवन्ति
कलेरापः || ३०८ ॥ कलि शब्दसंख्यानयोः । इत्यस्मादापः प्रत्ययो भवति ॥ कलापः काञ्ची समूहः शिखण्डश्च ।। ३०८ ॥
विशेरीपक् ॥ ३०९ ॥ विशंत् प्रवेशने । इत्यस्मादिपक् प्रत्ययो भवति ॥ विशिपो राशिः । विशिपं तृणं वेदमासनं पद्मं च ।। ३०९ ॥
दलेरीपो दिल् च ॥ ३१०॥ दल विशरणे । इत्यस्मादीपः प्रत्ययो भवति दिल चास्यादेशो भवति ॥ दिलीपो राजा ॥ ३१ ॥
उडेरुपक् ॥ ३११ ॥ उड् संघाते । इति सौत्रादुपक् प्रत्ययो भवति ।। उडुपः प्लवः । जपादिस्वाइत्वे । उडुवः ।। ३११ ॥
__ अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तौ । इत्यस्मादूपः प्रत्ययो [ भवति ] पश्चान्तादेशो भवति || अपूपः पक्कानविशेषः ।। ३१२॥
सर्तेः षपः ॥ ३१३ ।। गतौ । इत्यस्मात् षपः प्रत्ययो भवति || सर्षपो रक्षोनं द्रव्यं शाकं च॥ ३१३ ॥
Aho! Shrutagyanam