________________
हेमचन्द्रव्याकरणे
[३००-३०५ बालतृणम् । शष हिंसायाम् । इत्यस्य वा रूपम् ॥ बाधृड् रोटने । बाष्पोश्रु धूमाभासं च मुखपानीयादौ ॥ खनूग् अवदारणे | खप्पो बलात्कारो दुर्मेधाः कूपश्च । खष्पं खलीनं जनपदविशेषोङ्गारश्च ।। हनक हिंसागत्योः । हप्पः प्रावरणजातिः ॥ २९९ ॥
पम्पाशिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते ।। पांक रक्षणे । मोन्तो हस्वश्च । पम्पा पुष्करिणी ॥ शीलयतेः शलतेः शेतेर्वा शिलादेशश्च । शिल्पं विज्ञानम् ॥ आदिशब्दादन्येपि ।। ३०० ॥
क्षुचुपिपूभ्यः कित् ॥३०॥ एभ्यः कित्पः प्रत्ययो भवति ॥ टुक्षुत् शब्दे । क्षुपो गुच्छः ॥ चुप मन्दायाम् । चुप्पं मन्दगमनम् || पूगश् पवने । पूपः पिष्टमयः ॥३०१॥ .
नियो वा ॥ ३०२॥ णींग प्रापणे । इत्यस्मात्पः प्रत्ययो भवति ] स च किद्वा भवति ॥ नीपो वृक्षविशेषः । नेपो नयः पुरोहितो वृक्षो मृतकथ । नेपमुदकं यानं च ॥ ३०२ ॥
उभ्यवेर्लुक् च ।। ३०३ ।। आभ्यां कित्पः प्रत्ययो भवति लुक् चान्तस्य भवति | उभत् पूरणे | अव रक्षणादौ । उप | अप चाव्यये ॥ ३०३ ॥ .
दलिवलितलिखजिध्वजिकचिभ्योपः ॥ ३०४ ॥ एभ्योपः प्रत्ययो भवति || दल विशरणे | दलपः प्रहरणं रणमुखं विदलं दलविशेषश्च । दलपं व्रणमुखत्राणम् || वलि संवरणे | वलपः कर्णिका || तलण् प्रतिष्ठायाम् । तलपो हस्तप्रहारः ॥ खज मन्थे । खजपो मन्थः । खजपं दधिधतमुदकं च ॥ ध्वज गतौ । ध्वजपो ध्वजः ॥ कचि बन्धने । कचपः शाकपर्ण बन्धश्च ॥ ३०४ ॥
भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् ॥ ३०५ ॥
एभ्यः किदपः प्रत्ययो भवति ।। भुजंप पालनाभ्यवहारयोः । भुजपो राजा यजमानपालनादमिश्च ॥ कुतिः सौत्रः । कुतपश्छागलोमां कम्बल आस्तरणं श्राकालश्च । कुटत् कौटिल्ये । कुटपः प्रस्थ चतुर्भागो नीडं च शकुनीनाम् ।।
Aho I Shrutagyanam