________________
हेमचन्द्रव्याकरणे
[२८६-२९३ खलिहिंसिभ्यामीनः ॥ २८६ ।। आभ्यामीनः प्रत्ययो भवति || खल संचये च | खलीनं कवियम् ॥ हिसुप् हिंसायाम् । हिंसीनः श्वापदः ।। २८६ ।।
पठेणित् ॥ २८७॥ पठ व्यक्तायां वाचि । इत्यस्माणिदीनः प्रत्ययो भवति ।। पाठीनो मत्स्य: ॥ २८७ ॥
यम्यजिशक्यर्जिशीयाजितृभ्य उनः ॥ २८८ ।। एभ्य उनः प्रत्ययो भवति ।। यमूं उपरमे । यमुना नदी ॥ अज क्षेपणे च । घयुनं विज्ञानमङ्गं च । वयुनो विद्वाञ्चन्द्रो यज्ञश्च || शकुंट शक्तौ । शकुनः पक्षी || अर्ज अर्जने | अर्जुनः ककुभो वृक्षः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतमुवर्ण च || शीड्क् स्वमे । शयुनोजगरः। यजी देवपूजादौ । यजुना क्रतुद्रव्यम् || तृ प्लवनतरणयोः | तरुणः समर्थो युवा वायुश्च । ऋफिडादित्वाल्लत्वे । तलुनः ।। २८८ ॥
लषेः श् च ॥ २८९ ।। लषी कान्तौ । इत्यस्मादुनः प्रत्ययो [ भवति ] तालव्यशकारश्चान्तादेशो भवति ।। लशुनं कन्दजातिः ।। २८९ ॥
पिशिमिथिक्षुधिभ्यः कित् ।। २९० ॥ एभ्यः किदुनः प्रत्ययो भवति ।। पिशत् अवयवे | पिशुनः खलः । पिशुनं मैत्रीभेदकं वचनम् । मिथग मेधाहिंसयोः । मिथुनं स्वीपुंसवन्दं राशिश्च ।। क्षुधं बुभुक्षायाम् । क्षुधुन: कीटकः ॥ २९० ।।।
फले!न्तश्च ॥ २९१ ॥ फल निष्पत्ती । इत्यस्मादुनः प्रत्ययो [ भवति ] गवान्तो भवति ॥ फल्गुनोर्जुनः । फल्गुनी नक्षत्रम् || २९१ ॥
वीपतिपटिभ्यस्तनः ॥ २९२॥ एभ्यस्तनः प्रत्ययो भवति ॥ वीं प्रजननादौ । वेतनं भूतिः ॥ पतू गतौ । पत्तनम् ॥ पट गते । पट्टनम् ॥ द्वावपि नगरविशेषौ ॥ पट्टनं शकटैर्गम्यं घोटकै भिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्पचक्षते || २९२ ।।
पृपूभ्यां कित् ।। २९३ ॥ आभ्यां कित्तनः प्रत्ययो भवति ॥ पुंड्त् व्यायामे | पृतना सेना ॥ पूगश पवने । पूतना राक्षसी ॥ २९३ ।।
Aho I Shrutagyanam