________________
२७१-२८५] उणादिगणविवृतिः । .
ऋचिरञ्जिमन्दिसह्यहिभ्योसानः ।। २७९ ॥ एभ्योसानः प्रत्ययो भवति ॥ ऋजु भर्जने । ऋञ्जसानो महेन्द्रो मेघः श्मशानं च || रञ्जी रागे | रञ्जसानो धर्मो मेघश्च ।। मदुड् स्तुत्यादिषु । मन्दसानो हंसश्चन्द्रः सूर्यो जीवः स्वमोनिश्च ।। षहि मर्षणे | सहसानो दृढो मयूरो यजमानः क्षमावांश्च ॥ अर्ह पूजायाम् | अर्हसानश्चन्द्रस्तुरंगमश्च ।। २७९ ॥
रुहियजेः कित् ॥ २८०॥ __ आभ्यां किदसान: प्रत्ययो भवति || रुहं जन्मनि । रुहसानो विटपः ॥ यर्जी देवपूजासंगतिकरणदानेषु । इजसानो धर्मः ।। २८० ।।
वृधेर्वा ।। २८१ ।। वृधेरसानः प्रत्ययो [ भवति ] स च किद्वा भवति ।। वृधूड् वृद्धौ । वृधसानो गर्भः | वर्धसानो गिरिर्मृत्युर्गर्भः पुरुषश्च ।। २८१ ।।
इयाकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ।। एभ्य इनः प्रत्ययो भवति || इयड् गतो । श्येनः पक्ष्यभिचारयज्ञश्च ॥ कठ कृच्छ जीवने । कठिनममृदु ।। खल संचये च । खलिनमश्वमुखसंयमनम् ।। णल गन्धे | नलिनं पद्मम् ।। अव रक्षणादौ | अविनं जलं मृगो नाशोनी राजाध्वर्युविधानं गुप्तिश्च ।। कुडुड् दाहे । कुण्डिन ऋषिः । कुण्डिनं नगरम् ॥ २८२ ।।
वृजितुहिपुलिपुटिभ्यः कित् ॥ २८३ ॥ एभ्यः किदिनः प्रत्ययो भवति ।। वृजैकि वर्नने । वृजिनं कुटिलं पापं च ॥ तुह अर्दने । तुहिनं हिममन्धकारश्च ॥ पुल महत्त्वे ।। पुटत् संश्लेषणे । पुलिनं पुटिनं. च नदीतीरवालुकासंघातः || २८३ ।।
विपिनाजिनादयः ।। २८४ ॥ विपिनादयः शब्दाः किदिनप्रत्ययान्ता निपात्यन्ते ॥ डुवपी वीजसंताने | टुवेपृड् चलने । इत्यस्य वा | इचोपान्त्यस्य । विपिनं गहनमब्ज जलदुर्ग च ।। अज क्षेपणे च । अस्य वीभावाभावश्व | अजिनं चर्म || आदिग्रहणादन्येपि ।।२८४।।
महेणिद्वा ।। २८५॥ मह पूजायाम् । इत्यस्मादिनः प्रत्ययो [ भवति ] स च णिहा भवति ।। मा. हिनं राज्यं बलं च ॥ महिनं राज्यं शयनं च । महिनो माहात्म्यवान् ।।२८५॥
Aho! Shrutagyanam