________________
हेमचन्द्रव्याकरणे
[२७४-२७८ सूधूभूभ्रस्जि-यो वा ।। २७४ ॥ एभ्योनः प्रत्ययो भवति स च किडा [भवति]|| पूत् पेरणे । सुवनोङ्कर आदित्यः प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः पूर्वाह्नापराह्न मध्याह्नकालश्च । त्रिषवणम् || धत् विधूनने । धुवनो धूमो वायुरग्निश्च | धुवनमेधः । धवनम् ॥ भू सत्तायाम् । भुवनं जगत् । भवनं गृहम् ।। भ्रस्जीत् पाके | भृज्जनमन्तरिक्षमम्बरीषः पाकश्च । भ्रज्जनः पावकः ।। २७४ ।।
विदनगगनगहनादयः ॥ २७५ ॥ एते किंदनप्रत्ययान्ता निपात्यन्ते ।। विदु अवयवे । नलोपश्च । विदनो गोत्रकृत् ।। गमे च | गगनमाकाशम् ।। गाहौड् विलोडने । हस्वश्च । गहनं दुर्गमम् ॥ आदिग्रहणात् काञ्चनकाननादयो भवन्ति || २७५ ॥
संस्तुस्पृशिमन्थेरानः ॥ २७६ ।। सम्पूर्वात् स्तोः स्पृशेश्व सम्पूर्वाभ्यां वा स्तुस्पृशिभ्यां मन्थेश्च आनः प्रत्ययो भवति ॥ टुंग्क् स्तुती । संस्तवानः सोमो होता महर्षिर्वाग्मी च ।। स्पृशंत् संस्पर्शे] स्पर्शानो मनः । संस्पर्शानोमनोनिश्च ।। मन्थश् विलोडने ! मन्थानः खजकः।।२७६॥
युयुजियुधिबुधिमृशिदृशीशिभ्यः कित् ।। २७७ ॥ एभ्यः किदानः प्रत्ययो भवति ॥ युक् मिश्रणे । युवानस्तरुणः ॥ युजंपी योगे । युजानः सारथिः || युधिंच् संप्रहारे | युधानो रिपुः ॥ बुधिंच ज्ञाने | बुधान आचार्यः पण्डितो वा ॥ मृशंत् आमर्शने । मृशानो विमर्शकः ॥ दृशं प्रेक्षणे । दृशानो लोकपालः ।। युजादिप्रसिद्धकर्बर्थी एते ॥ ईशिक् ऐश्वर्ये । ईशान ईश्वरः ॥ २७७॥
मुमुचानयुयुधानशिश्विदानजुहुराणजिहियाणाः ।। २७८ ॥
एते किदानप्रत्ययान्ता निपात्यन्ते ।। मुद्वित्वं च । मुमुचानो मेघः ॥ एवं युधिच संप्रहारे । युयुधानः साहसिको राजा च कश्चित् || श्विताड् वर्णे । अस्य दश्च । शिश्विदानो दुराचारो द्विजः !। हुर्छा कौटिल्ये । अस्यान्तलुक् च । जुहुराणः कठिनहदयः कुटिलोग्निरध्वर्युरनडांश्च ॥ ही लज्जायाम् । जिहियाणो नीतिमान् ॥ सर्व एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके । अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ॥२७८||
Aho 1 Shrutagyanam