________________
२७०-२७३]
- उणादिगणविवृतिः । णम् || असूच क्षेपणे | असनो बीजकः ॥ रसण आस्वादनस्नेहनयोः । रसना जिह्वा ॥ रुचि अभिप्रीत्यां च । रोचना गोपित्तम् । रोचनचन्द्रः । विपूर्वात् । विरोचनोग्निः सूर्य इन्दुर्दानवश्च ।। जि अभिभवे । जयनपूर्णापटः ।। टुमस्जोत् शुद्धौ । मज्जनं स्नानं तोयं च ॥ देवृड् देवने । देवनोक्षः कितवश्च || स्यन्दौड् स्रवणे | स्यन्दनो रथः ॥ चदु दीप्त्याहादयोः । चन्दनं गन्धद्रव्यम् ॥ मदुड् स्तुत्यादौ । मन्दनं स्तोत्रम् ।। मडु भूषायाम् । मण्डनमलंकारः ।। मदैच् हर्षे । मदनो वृक्षः कामो मधूच्छिष्टं च ॥ दहं भस्मीकरणे । दहनोनिः ।। बहीं प्रापणे | वहनं नौः ।। आदिग्रहणात् पचेः । पचनोनिः ।। पुनातेः । पवनो वायुः ॥ बिभर्तेः । भरणं साधनम् || नयतेः । नयनं नेत्रम् ।। धुतेः। द्योतनः सूर्यः ।। रचेः । रचना वैचित्र्यम् ।। गृजेः । गृजनमभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः ।। प्रपतनः ।। इत्यादयोपि भवन्ति ।। २६९ ॥
__ अशो रश्चादौ ।। २७०॥ अशौटि व्याप्ती । इत्यस्मादनः प्रत्ययो भवति रेफश्चादो भवति ।। रशना मेखला ।। रशिमेके प्रकृतिमुपदिशन्ति सा च राशि रशना रश्मि इत्यत्र प्रयुज्यत इत्याहुः ॥ २७० ॥
उन्देर्नलुक् च ।। २७१ ॥ उन्दैप क्लेदने । इत्यस्मादनः प्रत्ययो [ भवति ] नलोपश्च भवति ॥ ओदनो भक्तम् ।। २७१ ॥
हनेर्घतजघौ च ।। २७२ ।। हनक हिंसागत्योः । इत्यस्मादनः प्रत्ययो भवति घतजघावित्यादेशौ चास्य भवतः । घतनो रङ्गोपजीवी पापकर्मा निर्लज्जश्च ॥ जघनं श्रोणिः ॥ २७२ ।।
___ तुदादिवृजिरञ्जिनिधाभ्यः कित् ॥ २७३ ।।
एभ्यः किदनः प्रत्ययो भवति || तुदीत् व्यथने । तुदनः ॥ क्षिपीत् प्रेरणे । क्षिपणः ।। सुरत् ऐश्वर्यदीप्त्योः । सुरणः ॥ बुधिच् ज्ञाने । बुधनः ।। षिवूच् उतौ । सिवनः । एषां यथासंभवं कारकमुच्यते । लबुड् अवस्रंसने | लम्बनः शकुनिः।। वृजकि वर्जने । वृजनमन्तरिक्ष निवारणं मण्डनं च || रजी रागे । रजनं हरिद्रा । महारजनं कुसुम्भम् । रजनो रङ्गविशेषः ।। डुधांग्क् धारणे च | निधनमवसानम् ॥ २७३ ॥
Aho! Shrutagyanam