________________
४६ हेमचन्द्रव्याकरणे
[२६२-२६९ सेर्वा ॥ २६२॥ पिंग्ट् बन्धने । इत्यस्मानः प्रत्ययो [ भवनि ] स च किवा भवति ।। सिनः कायो वस्त्रं बन्धश्र || सेना चमः ॥ २६२ ।।
सोरू च ।। २६३ ।। वुग्ट् अभिषवे | इत्यस्मान्नः प्रत्ययो भव] त्यूकारश्चान्तादेशो भवति ।। सूना घातस्थानं दुहिता पुत्रः प्रकृतिराघाटस्थानं च ।। २६३ ।।
रमेस्त् च ॥ २६४ ॥ रमि क्रीडायाम् । इत्यस्मानः प्रत्ययो भवति ] तथान्तादेशो भवति ।। रलं वज्रादिः॥ २६४ ।।
क्रुशेर्वृद्धिश्च ।। २६५ ॥ क्रुशं आहानरोदनयोः । इत्यस्मान्नः प्रत्ययो [भव] त्यस्य च वृद्धिर्भवति ।। क्रौनः श्वापदः ॥ २६५ ॥
__ द्युमुनिभ्यो माडो डित् ।। २६६ ॥ युसुनिपूर्वात् मांड्क् मानशब्दयोः । इत्यस्माडिन्नः प्रत्ययो भवति ||] द्युम्नं द्रषिणम् ।। सुमं सुखम् || निम्नं नतम् ।। २६६ ।।
शीडः सन्वत् ॥ २६७ ।। शीड्क् स्वमे । इत्यस्माड्डिनः प्रत्ययो [ भवति ] स च सन्वद्भवति ॥ शिनं शेपः ॥ २६७॥
दिननग्नफेनचिह्नबध्नधेनस्तेनच्योकादयः ॥ २६८ ।।
एते नप्रत्ययान्ता निपात्यन्ते ।। दीव्यतेः किल्लुक् च | दिनमहः ।। नञ्पूर्वात् वसेर्गोन्तो धातोर्लुक् च । न वस्ते । नग्नोवसनः ।। फणेः फलेः स्फायर्वा फेभावश्च । फेनो बुद्धदसंघातः ॥ चहरिचोपान्त्यस्य | चिह्नमभिज्ञानम् ॥ बन्धेबधू च । वनो रविः प्रजापतिर्ब्रह्मा स्वर्गः पृष्टान्तश्च ।। धयतेरेत्वं च । धेना सरस्वती माता च । धेनः समुद्रः । ईत्वं चेत्येके | धीना ॥ स्त्यायेस्ते च । स्तेनचौरः ।। च्यवतेर्वृद्धिः कोन्तश्च । च्योक्न मक्षस्थानमनुजः क्षीणपुण्यश्च । च्यौनी कांस्यादिपात्री || आदिशब्दादन्येपि ।। २६८ ॥ बसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिदहि
वह्यादेरनः ॥ २६९ ॥ एभ्यो न: प्रत्ययो भवति ।। युक् मिश्रणे | यवना जनपदः । यवनं मिश्र
Aho 1 Shrutagyanam