________________
२५५-२६१]
उणादिगणविवृतिः ।
परात् श्री डित् ।। २५५ ॥ परपूर्वात् शृश् हिंसायाम् । इत्यस्माड्डिद्वधः प्रत्ययो भवति ।। परश्वध आयुधजातिः ।। २५५ ।।
इषेरुधक् ॥ २५६ ॥ इषत् इच्छायाम् । इत्यस्मादुधक् प्रत्ययो भवति ।। इषुधो यञ्जा [?]||२५६॥
कोरन्धः ॥ २५७॥ कुंड् शब्दे । इत्यस्मादन्धः प्रत्ययो भवति || कवन्धश्छिन्नमूर्धा देहः ॥ २५७ ॥
प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ।। २५८ ॥
एभ्यो नः प्रत्ययो भवति || प्य वृद्धौ || प्यानः समुद्रश्चन्द्रश्च|| दुधागक् धारणे च । धाना भृष्टो यवोडरश्च ॥ पनि स्तुतौ । पन्नं नीचैःकरणं सन्नं जिह्वा च ॥ अनक प्राणने | अन्नं भक्तमाचारव ॥ ष्वदि आस्वादने । स्वनं रुचितम् ।। भिष्वपंक् शये । स्वमो मनोविकारो निद्रा च ।। वसं निवासे । वस्नं वासो मूल्यं मेढ़मागमश्च ।। अज क्षेपणे च | वेनः प्रजापतिर्ध्यानी राजावायुर्यज्ञः प्राज्ञो मूर्खश्च ।। अत सातत्यगमने । अन्न आत्मा वायुमेघः प्रजापतिश्च ।। षिवूच् उतौ । स्योनं सुखं तन्तुवायसूत्रसंतानः समुद्रः सूर्यो रश्मिरास्तरणं च ।। २५८||
षसेर्णित् ॥ २५९ ॥ षसक स्वमे । इत्यस्माणिनः प्रत्ययो भवति || साना गोकण्ठावलम्बि चर्म निद्रा च ॥ २५९ ॥
रसेर्वा ।। २६० ॥ रस शब्दे । इत्यस्मानः प्रत्ययो भवति ] स च णिवा भवति || रास्ना धेनुरोषधिजातिश्च ॥ रस्नं द्रव्यजातिः । रत्ना जिता । रत्नस्तुरङ्गो दण्डश्च ॥२६॥ . जीशादीबुध्यविमीभ्यः कित् ॥ २६१ ॥
___ एभ्यः किन्नः प्रत्ययो भवति ॥ जिं अभिभवे । जिनोर्हन्बुद्धश्च ॥ इण्क् गतौ । इनः स्वामी संनिपात ईश्वरो राजा सूर्यश्च ।। शीड्क् स्वमे । शीन: पीलुः ।। दीडच् क्षये । दीनः कृपणः खिन्नथ ॥ बुधिंच ज्ञाने । बुधो मूलं पृष्ठान्तो रुद्रश्च ।। अव रक्षणादौ । ऊनमपरिपूर्णम् ॥ मींड्च् हिंसायाम् । मीनो मत्स्यो राशिश्च ।। २६१॥
Aho ! Shrutagyanam