SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे [२३२-२३७ भृशीशपिशमिगमिरमिवन्दिवञ्चिजीविप्राणिभ्योथः ॥ २३२ ।। __ एभ्योथः प्रत्ययो भवति ।। टुडुभंग्क पोषणे च । भरथः कैकेयीसुतोग्निलोकपालश्च ।। शीक् स्वप्ने | शयथोजगरः प्रदोषो मत्स्यो वराहश्च ।। शपी आक्रोशे । शपथः प्रत्ययकरणमाक्रोशश्व || शमूच उपशमे | शमथः समाधिराश्रमपदं च ।। गमुं गतौ । गगथः पन्थाः पथिकश्च ॥ रमि क्रीडायाम् । रमथः प्रहर्षः ॥ वदुड् स्तुत्याभिवादनयोः । वन्दथः स्तोता स्तुत्यश्च ।। वञ्चू गतौ । वञ्चथोध्या कोकिलः काकदम्भश्च || जीव प्राणधारणे । जीवथार्थवाचलमन्नं वायुमयूरः कूर्मो धार्मिकश्च ।। अनक् प्राणने | प्राणथो बलवानीश्वरः प्रजापतिश्च ॥२३२।। उपसर्गादसः ॥ २३३ ।। उपसर्गात्परस्मात् वसं निवासे । इत्यस्मादथः प्रत्ययो भवति || आवसथो गृहम् ॥ उपवसथ उपवासः ॥ संवसथः संवासः ॥ सुवसथः सुवासः || निवसथो निवासः ।। २३३ ।। विदिभिदिरुदिहिभ्यः कित् ।। २३४ ।। एभ्यः किदथः प्रत्ययो भवति ।। विदक् ज्ञाने । विदथो ज्ञानी यज्ञोध्वर्युः संग्रामश्च ।। भिदंपी विदारणे । भिदथः शरः ॥ रुदन अश्रुविमोचने । रुदयो बालोसत्त्वः श्वा च ।। द्रुहौच जिघांसायाम् । द्रुहथः शत्रुः ।। २३४ ॥ रोर्वा ।। २३५ ॥ रुक् शब्दे । इत्यस्मादथः प्रत्ययो [भवति ] स च किवा भवति ॥ रुवथः शकुनिः शिशुश्च || रवथ आक्रन्दः शब्दकारश्च ।। २३५ ॥ वृभ्यामूथः ।। २३६ ॥ आभ्यामूथः प्रत्ययो भवति ।। जष्च् जरसि । जरूथः शरीरमग्रमांसममिः संवत्सरो मार्गः कल्मषं च ॥ वृग्श् वरणे | वरूथो वर्म सेनाङ्गं बलसंघातश्च ।। २३६ ॥ शाशपिमनिकनिभ्यो दः ।। २३७ ॥ एभ्यो दः प्रत्ययो भवति || शोच् तक्षणे | शादः कर्दमस्तरुणतणं मृदुबन्धः सुवर्ण च ।। शपी आक्रोशे । शब्दः श्रोत्रप्रायोर्थः ॥ मनिंच ज्ञाने । मन्दोलसो बुद्धिहीनश्च ।। कनै दीप्यादिषु । कन्दो मूलम् ॥ २३७ ॥ Aho 1 Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy