________________
२३८-२४६]
उणादिगणविवृतिः।
आपोप् च ॥ २३८॥ आफूट व्याप्तः । इत्यस्माइः प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति ।। अब्दं वर्षम् ॥ २३८ ॥
गोः कित् ॥ २३९॥ गंत् पुरीपोत्सर्गे । इत्यस्मारिकहः प्रत्ययो भवति ।। गुदमपानम् ।।२३९।।
वृतुकुसुभ्यो नोन्तश्च ।। २४० ॥ एभ्यः किदः प्रत्ययो भवति नकारश्चान्तो भवति ॥ वृग्ट वरणे । वृन्द समूहः ।। तुंक् वृत्त्यादिषु । तुन्दं जठरम् ॥ कुंड् शब्दे । कुन्दः पुष्पजातिः।। पुंगट अभिषवे | सुन्दो दानवः ।। २४० ।।
कुसेरिदेदौ ।।२४१ ।। कुसच् श्लेषे । इत्यस्मादिद ईद इत्येतो किती प्रत्ययो भवतः ॥ कुसिदमृणम् ।। कुसीदं वृद्धिजीविका ॥ २४१॥
इङ्ग्यर्षिभ्यामुदः ॥ २४२ ॥ आभ्यामुदः प्रत्ययो भवति ।। इगु गतौ । इङ्गुदो वृक्ष जातिः ॥ अर्ब गतो । अर्बुदः पर्वतोक्षिव्याधिः संख्याविशेषश्च । निर्वात् । न्यर्बुदं संख्याविशेषः ॥ २४२ ॥
कर्णिद्वा ।। २४३ ।। ककि लौल्ये । इत्यस्मादुनः प्रत्ययो [ भवति ] स च णिद्रा भवति ॥ काकुदं तालु || ककुदं स्कन्धः ॥ २४३ ।।
कुमुदबुद्बुदादयः॥ २४४ ॥ एत उदप्रत्ययान्ता निपात्यन्ते ।। कमेः कुम् च | कुमुदं कैरवम् || बुन्देः किछोन्तश्च । बुद्धदो जलस्फोटः । बुद्बुदं नेत्रजो व्याधिः ।। आदिग्रहणात् दुहीक क्षर. गे । प्रत्ययादेरत्वे । दोहदोभिलापविशेषः ।। एवमन्येपि ।। २४४ ।।
ककिमकिभ्यामन्दः ॥ २४५ ॥ आभ्यामन्दः प्रत्ययो भवति ॥ ककि लौल्ये ।। मकिः सौत्रः। ककन्दो मकन्दश्च राजानौ । यकाभ्यां निर्वृत्ता काकन्दी माकन्दी च नगरी ॥ २४५ ॥
__ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक् ।। २४६ ।। एभ्य इन्दक् प्रत्ययो भवति ।। कलि शब्दसंख्यानयोः । कलिन्दः पर्वतो
Aho ! Shrutagyanam