________________
१०
हेमचन्द्रव्याकरणे
[२२२-२२६ जम्बूद्वीपपश्चिमहारं पश्चिमानुत्तरविमानं च । जयन्त्युदयनपितृष्वसा ॥ भू सत्तायाम् । भवन्तः कालः । भवन्ती ।। वद व्यक्तायां वाचि । वदन्तः । वदन्ती ।। वहीं प्रापणे | वहन्तो रथोनड्डात्रथरेणुर्वायुश्च | वहन्ती ।। वसं निवासे । वसन्त ऋतुः ।। भासि दीप्तौ । भासन्तः सूर्यः । भासन्ती | ण्यन्तोपि । भासयन्तः सूर्यः ।। अदंक् भक्षणे । अदन्तः । भदन्ती || साधंट् संसिद्धौ | साधन्तो भिक्षुः । ण्यन्तोपि । साधयन्तो भिक्षुः । साधयन्ती || मदैच् हर्षे । णौ | मदयन्तः । मदयन्ती पुष्पगुल्मजातिः ।। गड सेचने । गडन्तो जलदः । ण्यन्तोपि । गडयन्तः । गडयन्ती ।। गडु वदनैकदेशे । ण्यन्तः । गण्डयन्तो मेषः । मडु भूषायाम् । ण्यन्तः । मण्डयन्तः प्रसाधकोलंकार आदर्शश्च ॥ टुनदु समृद्धौ | ण्यन्तः । नन्दयन्तः सुखकृद्राजा हिरण्यं सुखं च | नन्दयन्ती ॥ रेवृड् पवि गतौ । रेवन्तः सूर्यपुत्रः ।। अनुक्तार्था धात्वर्थकाः ॥ २२१ ॥
___ सीमन्तहेमन्तभदन्तदुष्वन्तादयः ॥ २२२ ॥
एतेन्तप्रत्ययान्ता निपात्यन्ते ।। सिनोतेः सीम् च । सीमन्तः केशमार्गो ग्रामक्षेत्रान्तश्च ।। हन्तेहिनोतेर्वा हेम् च । हेमन्त ऋतुः ॥ भन्दते लुक् च । भदन्तो निर्यन्थेषु शाक्येषु च पूज्यः ॥ दुषेोन्तश्च । दुष्वन्तो राजा । आदिग्रहणादन्ये. पि ॥ २२२ ।।
शकेरुन्तः ।। २२३ ।। शक्ट शक्तौ । इत्यस्मादुन्तः प्रत्ययो भवति || शकुन्तः पक्षी ।।२२३ ।।
कर्डित् ॥ २२४ ॥ कष हिंसायाम् । इत्यस्मादुिन्तः प्रत्ययो भवति ||कुन्त आयुधम् ॥२२४॥
कमिघुगार्तिभ्यस्थः ।। २२५॥ एभ्यस्थः प्रत्ययो भवति ॥ कमूड् कान्तौ । कन्था प्रावरणं नगरं च ॥ अंड गतौ | प्रोथः प्रियो युवा सूकरमुखो घोणा च ॥में शब्दे । गाथा श्लोक आर्या वा ।।
क् गतौ । अर्थो जीवाजीवादिपदार्थः प्रयोजनमभिधेयं धनं याजा निर्धत्तिश्च ।। २२५ ॥
__ अवाद्गोच्च वा ।। २२६ ॥ अवपूर्वात् गायतेस्थः प्रत्ययो भवत्यच्चान्तादेशो वा भवति ॥ अवगथः । भवगाथोक्षसंघातः प्रातःसवनं रथयानं साम पन्थाच ॥ २२६ ।।
Aho 1 Shrutagyanam