________________
२१४-२२१] . उणादिगणविवृतिः।
अदो भुवो डुतः ॥ २१४ ॥ अद्पुर्वात् भुवो डुतः प्रत्ययो भवति || अद् विस्मितं भवति तेन तस्मिन्वा मनः । अद्भुतमाश्चर्यम् ॥ २१४ ।।
कुलिमयिभ्यामूतक् ।।२१५ ।। आभ्यामूतक् प्रत्ययो भवति ॥ कुल बन्धुसंस्त्यानयोः । कुलूना जनपदः ॥ मयि गतौ | मयूता वसतिः ।। २१५ ॥
जीवेर्म च ॥२१६॥ जीव प्राणधारणे | इत्यस्मादतक् प्रत्ययो भवति मश्वान्तादेशो भवति ॥ जीमूतो मेघो गिरिश्च ।। २१६ ॥
करोतः प् च ॥ २१७ ॥ कबृड् वर्णे । इत्यस्मादोतः प्रत्ययो [ भवति ] पश्चान्तादेशो भवति ॥ कपोत: पक्षी वर्णश्च ।। २१७॥
आस्फाडित् ।। २१८ ॥ आड्पूर्वात् स्कायैड् वृद्धौ । इत्यस्माडिदोतः प्रत्ययो भवति ॥ आस्फोता नामौषधिः ॥ २१८ ॥
जविशिभ्यामन्तः ॥२१९॥ आभ्यामन्तः प्रत्ययो भवति ॥ जृष्च् जरसि | जरन्तो भूतग्रामो वृद्धो माहेषश्च ॥ विशंत् प्रवेशने ।वेशन्तः पल्वलं वल्लभोप्राप्तापर्वर्ग आकाशं च ॥२१९।।
रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि टिदन्तः प्रत्ययो भवति ॥ रुहं जन्मनि । रोहतात् । रोहन्तो वृक्षः । रोहन्त्योषधिः ।। टुनदु समृद्धौ । नन्दतात् । नन्दन्तः सखानन्दश्व । नन्दन्ती सखी ॥ जीव प्राणधारणे । जीवतात् । जीवन्त आयुष्मान् । जीवन्ती शाकः ॥ अनक् प्राणने | प्राण्यात् । प्रागन्तो वायू रसायनं च । प्राणन्ती स्त्री ।। २२० ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिगण्डिमण्डिनन्दि- ..
रेविभ्यः ॥२२१ ॥ एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके ॥ तृ प्लवनतरणयोः । तरन्त आदित्यो भेकथ । तरन्ती स्त्री ॥ जिं अभिभवे | जयन्तोरथरेणुर्वज इन्द्रपुत्रो
Aho! Shrutagyanam