________________
३८ हेमचन्द्रव्याकरणे
[२०-२१३ नटो देव ऊर्णास्तरणं हस्वश्च ।। तमूच् काङ्क्षायाम्। तमतो निर्वेद्याकाड़ी धूमश्च । दृशं प्रेक्षणे । दर्शतो द्रष्टाग्निश्च ।। हर्य क्लान्तौ । हर्यतो वायुरश्वः कान्तो रहिमयज्ञश्च ।। ककुड् गतौ । कडतः केशमार्जनम् ॥ २०७॥ . पृषिरञ्जिसिकिकालावृभ्यः कित् ।।२०८॥
एभ्यः किदतः प्रत्ययो भवति ॥ पृषू सेचने पृषतो मृगः।। रञ्जी रागे । रजतं रूप्यम् ॥ सिकिः सौत्रः। सिकता वालुका || के शब्दे | कतो गोत्रकृत् ॥ लांक् आदाने | लता वल्ली । वृग्ट् वरणे | व्रत शास्त्रतो नियमः ।। २०८ ॥
कृवृकल्यलिचिलिविलीलिलानायिभ्य आतक् ॥ २०९॥
एभ्य आतक् प्रत्ययो भवति || कृत् विक्षेपे । किरातः शबरः ।। वग्ट वरणे । व्रातः समूह उत्सेधजीविसंघश्च ॥ कलि शब्दसंख्यानयोः । कलातो ब्रह्मा ॥ अली भूषणादौ । अलातमुल्मुकम् ।। चिलत् वसने | चिलाता म्लेच्छाः॥ विलत् वरणे । विलातः शवाच्छादनवस्त्रम् ।। इलत् गत्यादौ । इलातो नगः ॥ लांक आदाने । लातो मृत्तिकादानभाजनम् ।। नाथूड् उपतापैश्वर्याशीःषु च । नाथात आहारः प्रजापतिश्च ॥ २०९ ।।
हश्यारुहिशोणिपलिभ्य इतः ।। २१० ॥ एभ्य इतः प्रत्ययो भवति ॥ हंग् हरणे । हरितो वर्णः ।। 3 गतौ । श्येतो वर्णो मृगो मत्स्यः श्येनश्च ।। रुहं जन्मनि । रोहितो वर्णो मत्स्यो मृगजातिश्च । लत्वे । लोहितो वर्णः । लोहितमसृक् ॥ शोण वर्णगत्योः। शोणितं रुधिरम् ॥ पल गती | पलितः श्वेतकेशः ॥ २१०॥
ना आपः ।। २११ ॥ नञ् पूर्वात् आपूट व्याप्तौ । इत्यस्मादितः प्रत्ययो भवति ॥ नापितः का. रुविशेषः।। २११ ॥
__ क्रुशिपिशिपृषिकुषिकुस्युचिभ्यः कित् ।।२१२।।
एभ्यः किदितः प्रत्ययो भवति ॥ क्रुशं आह्वानरोदनयोः । कुशितं पापम् || पिशत् अवयवे । पिशितं मांसम् ॥ पृषू सेचने । पृषितं वारिबिन्दुः॥ कुषश् निष्कर्षे । कुषितं पापम् ।। कुसच् श्लेषे । कुसित ऋषिः । कुसितमृणं लिष्टं च ॥ उचच् समवाये । उचिवं स्वभावो योग्यं चिरानुयातं श्रेष्ठं च ॥ २१२॥
. हग ईतण् ।। २१३॥ रंग हरणे । इत्यस्मादीतण् प्रत्ययो भवति || हारीतः पत्यृषिश्च ॥२१॥
Aho 1 Shrutagyanam