________________
३०
हेमचन्द्रव्याकरणे पठैधिठादयः ॥ १६६ ॥
पष्टादयः शब्दाष्ठप्रत्ययान्ता निपात्यन्ते ॥ पुषेः किडः पषादेशश्व | पठः प्रस्थः पर्वतव || एधतेरिट् च । एधिठं वनम् । एधिठो गिरिसरिग्रहः ॥ आदिशब्दादन्येपि ॥ १६६ ॥
१६६-९
मृजृगृकम्यमिरमिरपिभ्योठः ॥
१६७ ॥
एभ्योठः प्रत्ययो भवति || मृत् प्राणत्यागे । मरठो दध्यतिद्रवीभूतं कृमिजातिः कण्ठः प्राणश्च ।। नृष्च् जरसि । जरठ: कठोर: || शृश् हिंसायाम् । शरत आयुधं पापं क्रीडनशीलच || कमूड् कान्तौ । कमठो भिक्षाभाजनं कूर्मास्थि कच्छपो मयूरो वामनश्व || भ्रम गतौ । अमउः प्रकर्षगतिः || रमिं क्रीडायाम् । रमठो देशः कृमिजातिः क्रीडनशीलो म्लेच्छो देवश्व विलातानाम् || रप व्यक्त वचने । रपठो विद्वान्मण्डूकश्च ।।१६७ ||
पञ्चमाडुः || १६८ ॥
1
पञ्चमान्ताद्धातोर्डः प्रत्ययो भवति || पन भक्तौ । षण्डो वनं वृषभश्च । बाहुलकारसत्वाभावः ॥ भण शब्दे । भण्डः प्रहसनकरो बन्दी च ॥ चण शब्दे | चण्डः क्रूरः || पणि व्यवहारस्तुत्योः । पण्डः शण्ठः || गणण् संख्याने | गण्ड: पौरुषयुक्तः पुरुषः || मण शब्दे । मण्डो रश्मिरप्रमन्त्रविकारच || वन भक्तौ । वण्डोल्पशेफो निश्वर्मामशिश्रश्व || शमू दमूच् उपशमे । शण्ड उत्सृष्टः पशुर्कविश्व || दण्डो वनस्पतिप्रतानो राजशासनं नालं प्रहरणं च ॥ रमिं क्रीडायाम् । रण्डः पुरुषः । रण्डा स्त्री । रण्डमन्तःकरणम् | त्रयमपि स्वसंबन्धिशून्यमेवमुच्यते || तमेस्तनेर्वा । तण्ड ऋषिः । वितण्डा तृतीयकथा || गमेः । गण्डः कपोलः || भामि क्रोधे | भाण्डमुपस्करः ॥ १६८ ॥
horणिखनिभ्यो णिद्वा ॥ १६९ ॥
एभ्यो ङः प्रत्ययो भवति स च णिवा [ भवति ] || कण अण शब्दे | काण्डः शरः फलसंघातः पर्व च । कण्डं भूषणं पर्व च ॥ भाण्डो मुष्कः । अण्डः स एव योनिविशेषश्च || खनूग् भवदारणे । खाण्डः कालाभयो गुडः । खण्ड इसुविकारोन्यः । खण्डं शकलम् ॥ १६९ ॥
Aho! Shrutagyanam