________________
१५८-६५]
उणादिगणविवृतिः।
चपेरेटः॥१८॥ ..... चप सान्त्वने | इत्यस्मादेटः प्रत्ययो भवति ॥ चपेटश्चपेटा वा हस्ततलाहतिः॥ १५८॥
ग्रो णित् ।। १८९॥ गृत् निगरणे | इत्यस्माण्णिदेटः प्रत्ययो भवति ।। गारेट ऋषिः ॥ १५९ ॥
__कृशक्शाखेरोटः ॥१६॥ एभ्य ओटः प्रत्ययो भवति || डुकंग करणे करोटो भृत्यः शिरः कपालं च । करोटं भाजनविशेषः । शकूट शक्तौ | शकोटो बाहुः।। शाख लाख व्याप्तौ । शाखोटो वृक्षविशेषः ॥१६॥
कपोटवकोटाक्षोटकर्कोटादयः॥ १६१॥ एत ओटप्रत्ययान्ता निपात्यन्ते ।। कबृड् वर्णे । पश्च । कपोटो वर्णः कित. वश्च ॥ वचेः कश्च । वकोटो बकः ।। अभातेः सश्च परादिः । अक्षोटः फलवृक्षः ।। कृगः कोन्तश्च | कर्कोटो नागः ।। आदिशब्दादन्येपि ॥ १६१॥
वनिकणिकाश्युषिभ्यष्ठः ।। १६२।। एभ्यष्ठः प्रत्ययो भवति ।। वन भक्तौ । वण्ठोनिविष्टः ॥ कण शब्दे । कण्ठः कंधरा । काशृड् दीप्तौ । काष्ठं दारु | काष्ठा दिगवस्था च ।। उषू दाहे । ओष्ठो दन्तच्छदः ॥ १६२॥
पीविशिकुणिषिभ्यः कित्॥ १६३ ॥ एभ्यः किट्ठः प्रत्ययो भवति ।। पीड्च् पाने । पीठमासनम् ॥ विशंत् प्रवेशने | विष्टा पुरीषम् ॥ कुणत् शब्दोपकरणयोः । कुण्ठोतीक्ष्णः ॥ पृषू सेचने । पृष्ठोङ्कुशः शरीरैकदेशश्च ॥ १६३॥
कुषेर्वा ।। १६४ ॥ कुषश् निष्कर्षे । इत्यस्माः प्रत्ययो भवति स च वा कित् [ भवति ] || कुष्ठं व्याधिर्गन्धद्रव्यं च । कोष्टः कुसूल उदरं च ॥ १६४ ॥
शमेलृक् च वा ।। १६५ ।। शमूव् उपशमे । इत्यस्माहः प्रत्ययो भवति लुक् चान्तस्य वा भवति ।। शो धूर्तः । शण्ठः स एव । नपुंसकं च ॥ १६५ ॥
Aho ! Shrutagyanam