________________
हेमचन्द्रव्याकरणे
[१५१-७ तृकृकृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥ एभ्यः किदिटः प्रत्ययो भवति ॥ तृ प्लवनतरणयोः तिरीटं कूलवृक्षो मुकुट वेष्टनं च ॥ कृत् विक्षेपे । किरीटं मुकुटं हिरण्यं च || कृपौड् सामर्थे । कृपीटं हिरण्यं जलं च ॥ कपुड् चलने । कम्पीटं कम्पः कम्पं च ॥ कृषीत् विलेखने । कृषीट जलम् ॥ १५१ ॥
खनेररीटः ॥ १५२ । खजु गतिवैकल्ये । इत्यस्मादरीटः प्रत्ययो भवति || खञ्जरीटः खञ्जनः ॥ १५२॥
गृजदृवृभृभ्य उट उडश्च ॥ १५३ ।। एभ्य उट उडश्च प्रत्ययो भवनः । भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थः । अप्रकृतस्याप्युडस्येह विधानं लाघवार्थम् ॥ गृश शब्दे | गरुटो गरुडश्च गरुत्मान् ।। जष्च् जरसि | जरुटो जरुडश्व वनस्पतिः॥ दृश्विदारणे । दरुटो दरुडश्च बिडालः ।। वृग्य वरणे। वरुटो वरुडश्च मे[५]ः ।। भृश् भर्जने च । भरुटो भरुडश्च मेष एव ॥१५३॥
मकर्मकमुकौ च ॥ १५४॥ - मकुड् मण्डने । इत्यस्मादुटः प्रत्ययो भवति मक मुक इत्यादेशौ चास्य भवतः ।। मकुटो मुकुटश्च किरीटः ॥ १५४ ॥
नर्कुटकुक्कुटोत्कुरुटमुरुटपुरुटादयः ।। १५५।। एत उटप्रत्ययान्ता निपात्यन्ते ।। नृतेः कश्च । नर्कुटो बन्दी ॥ कुके कोन्तश्च । कुक्कुटः कृकवाकः ॥ उत्पूर्वात्कृगः कुर् च । उत्कुरुटः कचवारपुञ्जः। मुरिपुर्योर्गुणाभावश्च । मुरुटो यद्वेण्वादिमूलमृजु कर्तुं न शक्यते ॥ पुरुटो जलजन्तुः । आदिशब्दात् स्थपुटादयो भवन्ति ॥ १५५ ॥
दुरो द्रः कूटश्च दुर् च ॥१५६॥ . दुपूर्वात् दृातेः किदूट उटश्च प्रत्ययो [भवतो] दुर् चास्यादेशो भवति ॥ दुर्दुल्टो दुर्मुखः । दुर्दुरुटो देशकालवादी ।। १५६॥
बन्धः ।। १२७॥ बन्धश् बन्धने । इत्यस्मारिकतूटः प्रत्ययो भवति ॥ वधूटी प्रथमवयाः खी॥१५७॥
Aho 1 Shrutagyanam