________________
उणादिगणविवृतिः । कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ।। १७० ॥ - एभ्यः किडः प्रत्ययो भवति ॥ कुंड् शब्दे | कुडो घटो हलं च ॥ गुंड् शन्दे । गुडो गोल इक्षुविकारश्च । गुडा संनाहः ॥ हुंक् दानादनयोः । हुडो मूर्यो मेषश्च ।। णींग् प्रापणे । नीडं कुलायः ॥ कुणत् शब्दोपकरणयोः । कुण्डं भाजनं जलाधारविशेषश्च | कुण्डो भर्तरि जीवति जारेण जातोपद्विन्द्रियश्च ॥ तुगत् कौटिल्ये । तुण्डं मुखम् || पुणत् शुभे । पुण्डो भिन्नवर्णः ।। मुणत् प्रतिज्ञाने । मुण्डः परिवापितकेशः । शुनत् गतौ । शुण्डा सुरा हस्तिहस्तश्च ।। आदिग्रहणादन्येभ्योपि भवति ॥ १७० ॥
ऋसृतृव्यालिह्यविचमिवमियमिचुरिकुहेरडः ।। १७१ ॥
एभ्योडः प्रत्ययो भवति ।। ऋक् गतौ । भरडस्तरुः ॥ से गतौ । स. रडो भुजपरिसर्पस्तरुश्च ॥ तृ प्लवनतरणयोः । तरडो वृक्षजातिः ॥ व्यग् संवरणे | व्याडो दुःशीलो हिंसः पशुर्भुजगश्च ॥ लिहींक आस्वादने । लेहडः श्वा चौर्यगासी च || अव रक्षणादौ | अवडः क्षेत्रविशेषः॥ चमू अदने । चमडः पशुजातिः ।। टुवमू उद्भिरणे | वमडो लूताजातिः ।। यमू उपरमे । यमडो वनस्पतियुगलं च || चुरण स्तेये । चोरडधोरः ।। कुहणि विस्मापने | कुहड उन्मत्तकः ।। १७१ ॥
विहडकहोडकुरडकरडक्रोडादयः॥ १७२॥ . एतेडप्रत्ययान्ता निपात्यन्ते ॥ विपूर्वात् हन्तेरनो लुक् च । विहडः शकुनिर्मूढचित्तश्च ।। कर्हः प्रत्ययोकारस्य च ओकारः ॥ कहोड ऋषिः । कुरेर्गुणाभावश्च | कुरडो मार्जारः ॥ किरते: केर् च । केरडखैराज्ये राजा ॥ कृगः किस्मत्ययोकारस्य च ओकारः ॥ क्रोडः किरिरङ्गश्च ।। आदिग्रहणात् लहोडादयो भवन्ति ॥ १७२ ॥
जृकृतशसृभृवृभ्योण्डः ॥ १७३॥ एभ्योण्डः प्रत्ययो भवति ।। जृष्च् जरसि । जरण्डोतीतवयस्कः ॥ कृत् विक्षेपे । करण्डः समुद्गः कृमिजातिश्च ।। तृ प्लवनतरणयोः । तरण्डः प्लवो वायुश्च । शृश् हिंसायाम् । शरण्डो हिंस्र आयुधं च ॥ सं गतौ । सरण्डः कृमिजातिरिषीका वायुर्भूतसंघातस्तृणसमवायच ॥ टुडुग्क् पोषणे च । भरण्डो भण्डमातिः पक्षी च || वृन्ट् वरणे | वरण्डः कुडचं तृणकाष्टादिभारच ॥१७३॥
Aho! Shrutagyanam