________________
२२
हेमचन्द्रव्याकरणे
[१०८-११४
काङ्क्षायाम् । तुङ्गो महावर्त्मा || शमूच् उपशमे । शुङ्गो मुनिः । शुङ्गाः कन्दल्यः | शुङ्गा विनता ॥ १०७ ॥
सर्तेः सुर् च ।। १०८ ॥
सृ गतौ । इत्यस्मादुङ्गः प्रत्ययो [ भवति ] सुर् चास्यादेशो भवति ।। सु[ रु]ङ्गा गूढमार्गः || १०८॥
स्थाजिनिभ्यो घः ॥ १०९ ॥
एभ्यो घः प्रत्ययो भवति ॥ ष्ठां गतिनिवृत्तौ । स्थाधो गाधः || * प्रापणे च । अर्धो मूल्यं मानप्रमाणं पादोदकादि च || जनैचि प्रादुर्भावे | जङ्घा शरीरावयवः || १०९ ॥
मघाघङ्घाघदीर्घादयः ॥ ११० ॥
एते घप्रत्ययान्ता निपात्यन्ते || मन्घलोपश्च । मघा नक्षत्रम् || हन्तेर्हस्य घश्व | घड्वो घस्मरः | बङ्घा काङ्क्षा || अमेर्लुक् च | अघं पापम् || दृणातेर्दीर् च । दीर्घ आयत उच्चश्व || आदिशब्दादन्येपि ॥ ११० ॥
सर्वैरवः ।। १११ ।।
सृ गतौ । इत्यस्मादधः प्रत्ययो भवति ॥ सरघा मधुमक्षिका ॥ १११ ॥ कुपूसामिणभ्यश्चद् दीर्घश्च ॥ ११२ ॥
कुपूभ्यां सम्पूर्वाच्च इणश्वर् प्रत्ययो [ भवति ] दीर्घश्व भवति । टो ड्यर्थः || कुंड् शब्दे | कूचो हस्ती । कूची प्रमदा चित्रभाण्डमुदश्विद्विकार || पूग्श् पवने | पूत्र: पूची मुनिः || इण्क् गतौ । समीच ऋत्विक् । समीचं मिथुनयोगः | समीची पृथिवी | उदीची च । दीर्घवचनाङ्गुणो न भवति ॥ ११२ ॥ कूर्चचूर्चादयः ।। ११३ ॥
कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते || कवते: किरतेः करोतेर्वा | ऊरादेशश्रान्तस्य | कूर्चे दमश्वासनं तन्तुवायोपकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति || चरतेश्वरयतेर्वा चूरादेशश्च । चूचें बलवान् ॥ आदिशब्दादन्येपि ॥ ११३ ॥
कल्यविमदिमणिकुकणिकुटिकृभ्योचः ।। ११४ ॥
एभ्योचः प्रत्ययो भवति || कलि शब्दसंख्यानयोः | कलचो गणकः ॥
Aho ! Shrutagyanam