________________
१५-१२२] __उणादिविवृतिः। अव रक्षणादौ | अवच उच्चस्तरः ।। मदैच् हर्षे । मदचो मत्तः ॥ मण शब्दे । मणचः शकुनिः ।। कुंड् शब्दे । कवचं वर्म ।। कण शब्दे | कणचः कणयः ।। कुटत् कौटिल्ये | कुटचो वृक्षजातिः ।। कृत् विक्षेपे । करचो धान्यावपनम्।। ११४।।
क्रकचादयः ।। ११५ ॥ क्रकच इत्यादयः शब्दा अचप्रत्ययान्ता निपात्यन्ते ॥ क्रमेः कश्च । क्रकचः करपत्रः ॥ आदिशब्दादन्येपि ॥ ११५ ॥
पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे । इत्यस्मादाचक् प्रत्ययो भवति ॥ पिशाचो व्यन्तरजातिः ॥ ११६ ॥
मृत्रपि-यामिचः ।। ११७॥ आभ्यामिचः प्रत्ययो भवति ।। मृत् प्राणत्यागे । मरिचमूषणम् ॥ पौषि लज्जायाम् । त्रपिचा कुथा ॥ ११७ ।।
म्रियतेरीचण् ।। ११८ ॥ ___ मृत् प्राणत्यागे । इत्यस्मादीचण् प्रत्ययो भवति ॥ मारीचो रावणमातुलः ॥ ११८ ॥
लषेरुचः कश्च ॥ ११९ ॥ लषी कान्तौ । इत्यस्मादुचः प्रत्ययो [भव] त्यन्त्यस्य च को भवति ॥ लकुचो वृक्षजातिः ॥ ११९ ॥
गुडेरू.चट् ॥ १२० ॥ गुडत् रक्षायाम् । इत्यस्मादूचट् प्रत्ययो भवति ॥ गुडूची छिन्नरुहा ।। कुडादित्वा[हि ] स्वम् ॥ १२० ॥
सिवेडित् ॥ १२१ ॥ षिवूच् उतौ । इत्यस्माधिदूचट् प्रत्ययो भवति || सूचः पिशुनः स्ति- . भिश्च । सूची संधानकरणी ।। १२१ ।।
चिमे चडञ्चौ ।। १२२ ॥ चिमिभ्यां प्रत्येकं डोच डच इति प्रत्ययो भवतः । वचनभेदान यथासंख्यम् ॥
Aho ! Shrutagyanam