________________
१०१-१०७] - उणादिविवृतिः।
विडिविलिकुरिमृदिपिशिभ्यः कित् ।। १०१॥ एभ्यः किदङ्गः प्रत्ययो भवति ।। विड आक्रोशे । विडङ्गो वृक्षजातिगुहावयवश्व ।। विलत् वरणे | बिलत् भेदने वा । विलग औषधम् ।।कुरत् शब्दे । कुरङ्गो हरिणः। कुरङ्गी भोजकन्या || मृदश् क्षोदे | मृदङ्गो मुरजः॥ पिशत् अवयवे । पिशङ्गो वर्णः ॥ १०१॥
स्फुलिकलिपल्याङ्य इङ्गक् ॥ १०२॥ स्फुल्यादिभ्य आदन्तेभ्यश्च इङ्गक् प्रत्ययो भवति ॥ स्फुलत् संचये च । स्फुलिङ्गः स्फुलिंङ्गा चामिकणः ॥ कलि शब्दसंख्यानयोः । कलिङ्गो राजा । कलिङ्गा जनपदः । पल गतौ । पलिङ्ग ऋषिः शिला च ॥ पातेः। पिङ्गः ॥ भातेः । भिङ्गः । हावपि वर्णविशेषौ ।। ददातेः । दिङ्गोध्यक्षः ।। दधातेः । धिङ्गः श्रेष्ठी ।। लातेः। लिङ्ग स्त्रीत्वादि हेतुश्च | आलिङ्गो वाद्यविशेषः ॥ श्यतेः शिङ्गो वनस्पतिः किशोरश्च ॥ १०२॥
___ भलेरिदुतौ चातः ॥ १०३ ॥ भलिण् आभण्डने । इत्यस्मादिङ्गक् प्रत्ययो भवत्यकारस्य च इकार-उकारौ भवतः ।। भिलिङ्गः कर्मारोपकरणम् । भुलिङ्ग ऋषिः पक्षी [च] । भुलिङ्गाः साल्यावयवाः ॥१३॥
अणित् ॥ १०४ ॥ - अदं भक्षणे | इत्यस्मादिङ्गक् प्रत्ययो भवति स च णित् [भवति । आदिङ्गो वाद्यजातिः ॥ १०४ ॥
उचिलिङ्गादयः ॥ १०५ ॥ उचिलिङ्गादयः शब्दा इङ्गप्रत्ययान्ता निपात्यन्ते ॥ उत्पूर्वात् चलेरस्येवं च। उचिलिङ्गो दाडिमी ।। आदिग्रहणादन्येपि ।। १०५ ।।
माडस्तुलेरुङ्गाक् च ॥ १०६ ।। माड्पूर्वात् तुलण उन्माने । इत्यस्मादुङ्गक इङ्गक् च प्रत्यया भवतः ॥ मातुलुङ्गो बीजपूरः । मातुलिङ्गः स एव ।। १०६॥ ।
कमितमिशमिभ्यो डित् ॥ १०७॥ एभ्यो डिदुङ्गः प्रत्ययो भवति ॥ कमूड् कान्तौ । कुङ्गा जनपदः। तमूच्
Aho! Shrutagyanam