________________
षष्ठ परिच्छेदः॥
ब्रह्माद्या आत्मवत्(१)॥४७॥ ब्रह्माद्याः शब्दा लक्ष्यानुसारेणात्मवत् साधवो भवन्नि । बह्मा, बह्माणो । (३-३ रलोपः ४-६ नलोपः शे० लक्ष्यानु सारेणात्मनो रादवत्कार्यं भवत्यतः ५-३६ सू० आत्वं,ब्रझा, एव मुत्तरत्रापि) जुवा, जुवाणो (२-३१ य-ज् ४-६ नलोपः शेषमात्मवत) अद्धा, अद्धाणो । (३-३ वलोपः ३-५० द्वि० ३-५१ =द् ४-६ न्लोपः शेषमात्मवत) ब्रह्मन, युवन, अध्वन, एवमादयो लक्ष्यानुसारेणावगन्तव्याः ॥ ४७ ॥
इति प्राकृतप्रकाशे लिङ्गविभक्त्यादेशः
पञ्चमः परिच्छेदः॥
अथ षष्ठः परिच्छेदः।
सर्वादेर्जस एत्वम् ॥ १॥ सर्वादेरुत्तरस्य जस एवं भवति(२)। सब्बे (३-३ रलोपः ३-५० वद्वि०) जे (२-३१यज वएमग्रेऽपिज्ञेयम्) ते (४-६ दलोपः) के (६-१३ किम्-क) कदरे । (१२-३ त=दः) सर्वे । ये । ते । के । कतरे ॥ १ ॥
(१) पुंस्यन आणो राजवञ्च ८ । ३ । १६ ।
पुंलिङ्गे वर्तमानस्यान्नन्तस्य आण इत्यादेशोवा भवति । पक्षे यथा दर्शनं राजवत् कार्य भवति । हे०
(२) अकारान्ताद्भवति । तथा च हेमः अतः सर्वादेर्डेजसः । ८। ३। ५८ अतः किम् सव्वाओ रिद्धीओ इति ।
Aho! Shrutgyanam