________________
प्राकृतप्रकाशे इणो धणं । (५-४१ सूत्रे स्प०) रण्णा, राइणा कअं । (४-६ नलोपः ५-४१ टा=णा द्वित्वे अन्त्यजलोपे इस्त्रे च) ॥ ४२ ॥
इदद्वित्वे ॥ ४३ ॥ वेति निवृत्तम् । ङसादेशस्य टादेशस्य च अकृते द्वित्वे राज्ञ इत्वं भवति । राइणा,राइणो।(स्प०) कृते द्वित्वे स्वित्वं न भवति रण्णा, रणो (५-४२ सू० ५-३८ मूत्रे च स्पष्टं) ॥४३ ॥
आ णोणमोरङसि ॥ ४४ ॥ णोणमोः परयो राज्ञो जकारस्य आकारादेशः स्यात् । अङसि । षष्ठयेकवचने न भवति । राआणो कावन्ति । राआणो पेक्ख । (५-३८ सूत्रे व्याख्याताः) । राआणं घणं (५-४० सू.स्प०)। अङतीति किंम् । राइणो, रणो धणं । शेषमदन्तवत् । राअं, राएहि । राआ, राआदो, राआदु । राआ। (५-६ सूत्रेण दो-दु-हयः डसे: स्थाने प्रयुज्यन्ते शे० स्प०) राआहितो, आसुतो(५-७ भ्यसः हितो-संतो-आदेशौ) राअम्मि, राए (५-२ ङे ए-म्मि) राएमु । (५-१२ एत्वे शे० स्प०) राजानं, राजभिः, राज्ञः, राजभ्यः, राज्ञि, राजसु ॥ ४४ ॥
आत्मनो ऽपाणो वा ॥ ४५ ॥ आत्मनोऽपाण इत्यादेशो भवति वा । अप्पा अपाणो (४-६ न् लोप० शे० १०) ॥ ४५ ॥
इत्वद्वित्ववर्ज राजवदनादेशे ॥ ४६ ॥ आत्मनोऽनादेशे राजवत्कार्यस्यादिद्वित्वे वर्जयित्वा । आप्पा, अप्पाणो, अप्पणा, अप्पणो । (५-३८ सूत्रानुसारतः जसादीनां गोत्वादिकं सर्व राजवत) आत्मा, आत्मानः, अत्मना, आत्मनः ॥ ४६॥
Aho! Shrutgyanam