________________
१०८
प्राकृतप्रकाशे
करोते ददातेश्च परोभविष्यति विहितस्य म्यादेशस्य स्थाने हंवा प्रयोक्तव्यः । काहं । दाहं । करिष्यामि । दास्यामीत्यर्थः । पक्षे कादिमि । दाहिमि । इत्यादि ।
अधुना धात्वादेशाः प्रदश्यन्तेभुवेहो-हुव-हवाः । ८।४। ६० । भुवोधाता), हुव, हव इत्येते आदेशा वा भवन्ति(१) । होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति । पर्छ। भवइ । परिहीण विहवो । क्वचिदन्यदपि । उन्भुअइ । भत्तं । भुत्तं । अवितिहुः । ८४।६१॥ विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति। हुन्ति । भवन् (भुवन्) हुन्तो । अवितीति किम् । होइ । पृथक् स्पष्टे णिव्वडः । ८।४।६२॥ स्थक् भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति । णिव्वड । पृथक् स्पष्टो वा भवतीत्यर्थः ।
प्रभो हुप्पो वा । ८।४।६३॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति । प्रभुत्वं च प्रपूर्वस्यै वार्थः । अङ्गच्चिअ न पहुप्पा । पक्षे पभवेइ ।
सम्भावे रासङ्घः ॥ ३५ ॥ आसवइ । सम्भावई। कथे बजर-पजर-उप्पाल-पिसुण-सड-बोल्ल-चव-जम्पसीस-साहाः ॥ ८॥२॥
वजरइ । पजरइ । उप्पालइ । पिसुणइ । सबइ। वोल्लह । च. घर। जम्पद । सीसइ । साहइ । पक्षे कहइ ।
एते चाऽन्यैर्देशीषु पठिता अपि अत्र धात्वादेशीकृता विविधेषु प्रत्ययषु प्रतिष्ठन्तामिति-तथाच-वजरिओ, कथितः । वज्जरि. ऊण, कथयित्वा । वज्जरणं, कथनम् । वज्जरन्तो, कथयन् । वज्जरिअव्वं, कथयितव्यम् । इतिरूपसहस्त्राणि सियन्ति । संस्कृत धातुवच्च प्रत्यय लोपागमादिविधिः (२)
(१) 'भवते हों, हुवौ स्याताम्' इति प्राकृत सर्वस्वम् । (२) 'शबादीनां च प्रायः प्रयोगो नास्ति'इति हेमः।
Aho! Shrutgyanam