________________
नाद्य
नक
संक्रांतिप्रकरणम् । अति अथ कीदृशस्य रवेः संक्रमो जातस्तत्फलमिंद्रवजयाह
तैतिले नागचतुष्पदे रविः सुप्तो निविष्टस्तु गरादिपंचके ।। स्तुघ्न ऊर्ध्वः शकुनी सकौलवेऽनिष्टः समः श्रेष्ठ इहार्घवर्षणे॥१३॥ स्यात्तैतिल इति ॥ रविस्तैतिले करणे नागकरणे चतुष्पदे च करणे सुप्तः संक्रतः स्यात् । गरादिपंचके गरे वणिजे भद्रायां बवे बालवे च निविष्टः संक्रमितः स्यात् । स्तुघ्ने सकौलवे शकुनौ च ऊर्ध्वः ऊर्ध्वस्थितः संक्रमितः स्यात् । इह करणाधिकरणकक्रांतो रविः अर्घवर्षणे अर्धे मूल्ये वर्षणे दृष्टौ उपलक्षणत्वादन्नेऽपि क्रमादनिष्टः समः श्रेष्ठः स्यात् । अयमर्थः । सुप्तरविसंक्रमा अर्धवर्षणधान्येष्वनिष्टाः महर्घवृष्टयभावधान्यापावकारकाः । एवं निविष्टः समः तथोर्ध्वः श्रेष्ठः । उक्तं च श्रीपतिना । धान्यावृष्टिषु भवेत्क्रमशस्त्वनिष्टमध्येष्टतेति ॥ १३ ॥
अथ रविसंक्रांतेः करणपरत्वेन वाहनवस्त्रायुधभक्ष्यलेपनजातिपुष्पाणि सफलानि शार्दूलविक्रीडितत्रयेणोपजातिकया चाह
सिंहव्याघ्रवराहरासभगजा वाह द्विषद्धोटकाः श्वाजो गौश्चरणायुधश्च बवतो वाहा रवेः संक्रमे ॥ वस्त्रं श्वेतसुपीतहारितकपांडारक्तकालासितं चित्रंकंबलदिग्घनाभमथ शस्त्रं स्याशंडी गदा ॥ १४ ॥ खड्गो दंडशरासतोमरमथो कुंतश्च पाशोंऽकुशो- . ऽस्त्रं बाणस्त्वथ भक्ष्यमनपरमान्नं भैक्षपकान्नकम् ॥ दुग्धं दध्यपि चित्रितान्नगुडमध्वाज्यं तथा शर्कराऽथोलेपो मृगनाभिकुंकुममथो पाटीरमृद्रोचनम् ॥ १५ ॥ यावश्चोतुमदो निशांजनमथो कालागुरुश्चंद्रको जातिर्दैवतभूतसर्पविहगाः पश्वेणविप्रास्ततः ॥ क्षत्री वैश्यकशूद्रसंकरभवाः पुष्पं च पुन्नागकं
जाती बाकुलकैतकानि च तथा बिल्वार्कदूर्वांबुजम् ॥ १६ ॥ स्यान्मल्लिका पाटलिका जपा च संक्रांतिवस्त्राशनवाहनादेः॥ नाशश्च तद्वृत्त्युपजीविनां च स्थिस्तोपविष्टस्वपतां च नाशः ॥१७॥
सिंहेति । खग इति । यावश्चेति । स्यान्मल्लिकेति च ॥ बवतो बवमारभ्यैकादशकरणेषु क्रमेण वाहनादीनि स्युः। वाहनानि सिंहादीनि । रासभो गर्दभः वाह. द्विषन्महिषः । लुलायो महिषो वाहद्विषत्कासरसैरिभा इत्यमरः । अजो मेषः । चरणायुधः
Aho ! Shrutgyanam