________________
* संक्रांतिप्रकरणम् । अतिपुण्याः प्रथमास्तु न तथा । एवं निर्णीते पुण्यकाले स्नानाद्यवश्यं विधेयम् । तत्र स्नानाद्यकुवेतः प्रत्यवायमाह वसिष्ठः । विषुवत्ययने ग्रहणे संक्रांतौ पुण्यदिवसे वा । पितृतृप्ति न करोति हि दत्वा शापं व्रजति तस्य पिता ॥ आगतगतसमयेऽपि च करोति यदानजपहोमाद्यम् । उपरवापितबीजं यद्वत्तद्वच्च निष्फलं भवतीति संक्रांतिषु स्नानदानादेरनंतं फलं स्यात् । षडशीत्यां तु यद्दानं यद्दानं विषुवद्वये । दृश्यते सागरस्यांतस्तस्यांतो नैव दृश्यत इति भरद्वाजोक्तेः । अयने कोटिपुण्यं च सहस्रं विषुवे फलम् । षडशीत्यां सहस्रं तु फलं विष्णुपदेषु चेति वसिष्ठोक्तेश्च । अयं च निर्णयश्चंद्रादीनामपि संक्रमे ज्ञेयः । तत्र हेमाद्यादौ कालनिर्णयकारादिभिः याः पुण्यकालघटिका उपनिबद्धास्ताः स्थूलास्तेन षष्टिघ्नबिंबं ग्रहमु. क्तिभक्तमित्यादिप्रकारेण ग्रहमध्यमभुक्तिमध्यमविंबानीताः सूक्ष्मा घटिका लिख्यते । स्फुटगतिस्फुटबिंबैश्चेत् साध्यंते ता अतिसूक्ष्मास्तासामनियतत्वात् श्लोके अनुपनिबंधः । मध्यमास्तु यथा । नाड्यो रामगुणा ३३ रवेरथ विधोः षड् दोः पलैर्युग्द्वयं २, २६ भौमस्याब्धिपलैर्युता नव ९, ४ विदो युक्ताः पलैः खाश्विभिः । षण्नाड्यो ६, २० ऽष्टगजा ८८ गुरोरथ भूगोनंदाः पलेरष्टभिः ९,६ पुण्याः स्युः खनृपाः १६० शनेरुभयतो राश्यूक्षयोः संक्रम इति ॥ ८ ॥
निरयनांशसंक्रांतिमभिधायेदानी सायनांशसंक्रांति सपुण्यकालामुपजात्याहतथायनांशाः खरसाहताश्च स्पष्टार्कगत्या विहृता दिनायैः ॥ मेषादितः प्राक् चलसंक्रमाः स्युर्दाने जपादौ बहुपुण्यदास्ते ॥९॥
तथेति ॥ यथा राशिसंक्रमा बहुपुण्यदास्तथा चलसंक्रमा अपीति व्यवहितस्तथाशब्दः । अयनांशाः षष्टया गुण्याः स्पष्टसूर्यगत्या विहृता लब्धैर्दिनाद्यैः दिनघटीपलैः कृत्वा मेषादिद्वादशसंक्रांतिकालात्प्राक् चलसंक्रमाः स्युस्ते चलसंक्रमा दाने जपादौ जपश्राडहोमादौ बहुपुण्यदा भवंति । पुलस्त्यः । अयनांशसंस्कृतो भानुर्गोले चरति सर्वदा । अमुख्या राशिसंक्रांतिस्तुल्यः कालविधिस्तयोः ॥ स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । सुकृतं चलसंक्रांतावक्षयं पुरुषोऽश्नुत इति । जाबालिरपि । संक्रांतिषु यथा कालस्तदीयेऽप्ययने तथा । अयने विंशतिः पूर्वा मकरे विंशतिः परेति । अत्र चलसंक्रमाख्ये मकरायणे पूर्वा विंशतिर्घटिकाः पुण्याः । मकरसंक्रातौ तु परा विंशतिर्घटिकाः पुण्यकालः । मकरव्यतिरिक्तैकादशचलसंक्रांतिषु तत्तत्संक्रमवत्पुण्यकालो ज्ञेयः । अयनांशानयनादिविचारः सिद्धांतादवगंतव्यः । ईश्वरेच्छालोकादृष्टवशात्तत्तद्राश्यादिविभागस्य सूर्यतेजःसंपर्कश्चलसंक्रमः । मंडल मध्यसंपर्कश्च राशिसंक्रम इति विषयविवेकः । तत्र निरयनगणनयैव सकलव्य
१ चलसंक्रमे।
Aho ! Shrutgyanam