________________
नक्षत्रप्रकरणम् । शुक्रदृष्टे तनौ सौम्यवारे संधानमिष्यते ॥४२॥ सुरेज्येति ॥ पुष्यादिनक्षत्रेषु तथाऽष्टम्यां तिथौ हरौ द्वादश्यां च तिथौ तैतिलकरणे च तथा शुक्रदृष्टे युते च लग्ने तथा शुभग्रहाणां वारे संधानं संधिमैत्रीति यावत् इप्यते । तथा च कश्यपः । भाग्ये पुष्ये समैत्रे च लग्ने शुक्रेक्षिते युते । करणे तैतिलेऽष्टम्यां द्वादश्यां संधिरिष्यते ॥ ४२ ॥ अथ परीक्षामुहूर्त वसंततिलकयाह
त्यक्त्वाष्टाभूत १४शनिविष्टिकुजान् जनुर्भमासौ मृतौ रविविधू अपि भानि नाड्यः ॥ यंगे चरे तनुलवे शशिजीवतारा
शुद्धौ करादितिहरींद्रकपे परीक्षा ॥ ४३ ॥ त्यक्लेति ॥ भूतश्चतुर्दशी जनुर्भमासौ जन्मः जन्ममासश्च जन्मराशेरष्टमं सूर्य चंद्रं च नाड्यः भानि जन्मभकर्मभादिनक्षत्राणि नाडीनक्षत्राणि एतानि त्यक्त्वा यंगे द्विस्वभावे चरलग्ने वा तन्नवांशे च चंद्रशुद्धौ ताराशुद्धौ गुरुशुद्धौ च सत्यां करो हस्तः अदितिः पुनर्वसुः हरिः श्रवणः इंद्रो ज्येष्ठा कं जलं तत्स्वामी वरुणस्तस्य नक्षत्रं शततारका एषु भेषु परीक्षा कार्या अन्यत्स्पष्टम् । परीक्षानाम सुवर्णस्तेयादिपातकाभिशस्तस्य शुद्ध्यशुद्धिविचारपूर्वकं तप्तमाषादिरूपा दिव्यमिति यावत् । उक्तं च दीपिकायाम् । नो शुक्रास्तेऽष्टमा गुरुसहितरवौ जन्ममासेऽष्टमेंदौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने सुरगुरुरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने इति । व्यवहारोच्चये । अष्टम्यां च चतुर्दश्यां प्रायश्चित्तपरीक्षणे । न परीक्षाधिवासश्च शनिभौमदिने भवेत् ॥ ज्येष्ठ श्रवणहस्तश्च तथा ज्ञेयः पुनर्वसुः । तद्वच्छतभिषा प्रोक्ता ह्यभियुक्तविचारणे इति । नाडीनक्षत्राणि दीपिकाकारवचनात् । जन्मक्षमाद्यं दशमं च कर्म संघातिकं षोडशभं च मानसम् । स्यात्पंचविंशं समुदायमष्टादशं त्रयोविंशतिभं विनाशकम् ॥ एवं षड़ो जनः सर्वो जातिदेशाभिषेकभैः ॥ नवभो नृपतिज्ञेयो नाडीताराः स्मृता अमूरिति । नृजातिनक्षत्राणि वराहसंहितायाम् । पूर्वात्रयं सानलमग्रजानां राज्ञां च पुष्येण सहोत्तरा च । सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भ च कृषीवलानाम् ॥ आदित्यहस्ताभिजिदश्विभानि वणिग्जनस्वाम्यमुपागतानि । मूलत्रिनेत्रानिलवारुणानि भान्यग्रजातेः प्रभविष्णुतायाः॥ सौम्येंद्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि । सार्प विशाखाश्रवणे भरण्याश्चांडालजातेरभिनिर्दिशंतीति ॥ देशो वाराणस्यादिकस्तन्नक्षत्रं शतपदचक्रोक्तम् । यथा वारणस्या नक्षत्रं रोहिणीति । अभिषेकभं यस्मिन्पुष्यादिके नक्षत्रे राजाभिषेको जातस्तदभिषेकक्षमिति राज्ञां नव भानि इतरेषां पडेव भानि ॥ ४३ ॥
Aho ! Shrutgyanam