________________
नक्षत्रप्रकरणम् ।
२७ अश्वाः सप्तमी सहस्ये पौषे शिवा एकादशी भाद्रपदे अग्निस्तृतीया तु इति पुनः नभसः श्रावणस्य कृष्णपक्षे अमावास्या अष्टमी । अथ युगाद्याश्चत्वारः बाहुलराधयोः बाहुलः कार्तिकः राधो वैशाखस्तयोः शुक्लपक्षे गोऽनी नवमीतृतीये युगादी कार्तिक शुक्लनवमी कृतयुगादिः वैशाखशुक्लतृतीया त्रेतादिः भाद्रमाघासितमदनदौँ युगादी मदनस्त्रयोदशी दर्शोऽमावास्या भाद्रकृष्णत्रयोदशी कलियुगादिः माघकृष्णामावास्या द्वापरादिः । अत्र शुक्लादयो मासा ग्राह्याः । कार्तिक शुक्लनवमी चादिः कृतयुगस्य सा । त्रेतादिर्माधवे शुक्ला तृतीया पुण्यसंमिता ॥ कृष्णा पंचदशी माघे द्वापरादिरुदीरिता । कल्पादि स्यात्कृष्णपक्षे नभस्येव त्रयोदशीति नारदोक्तेः ॥ १७ ॥
इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितायां वळतमुहूर्तचिंतामणिटीकायां प्रमिताक्षरायां शुभाशुभप्रकरणं समाप्तम् ॥ १ ॥
॥ अथ नक्षत्रप्रकरणम् ॥ अथ नक्षत्रप्रकरणं व्याख्यायते । तत्रादौ नक्षत्रस्वामिनः शार्दूलविक्रीडितेनाहनासत्यांतकवहिधातृशशभृद्रुद्रादितीज्योरगा ऋक्षेशाः पितरो भगोऽर्यमरवी त्वष्टा समीरः क्रमात् ॥ शक्राग्नी खलु मित्र इंद्रनिक्रतिक्षीराणि विश्वे विधि
गोविंदो वसुतोयपाजचरणाहित्यपूषाभिधाः ॥ १॥ नासत्येति ॥ एते नासत्यांतकादयः ऋक्षेशा नक्षत्रेशाः क्रमात्स्युः ॥ १ ॥ अथ ध्रुवनक्षत्राणि तत्कृत्यं चानुष्टुभाह
उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् ॥ तत्र स्थिरं बीजगेहशांत्यारामादि सिद्धये ॥२॥ उत्तरात्रयेति ॥ उत्तरात्रयं रोहिणी चैतानि नक्षत्राणि रविवारश्च ध्रुवसंज्ञानि स्थिरसंज्ञानि चेति संज्ञाद्वयम् । एवमुत्तरत्रापि व्याख्येयम् । ध्रुवनक्षत्रेषु स्थिरादि कर्म कार्यम् । आदिग्रहणान्मृदुनक्षत्रोक्तं ग्राह्यम् । वसिष्ठः । मृदुबूंदे कथितान्यपि स्थिरछंदे तानि कार्याणीति ॥ २॥ अथ चरभानि तत्कृत्यं चानुष्टुभाहस्वात्यादित्ये श्रुते स्त्रीणि चंद्रश्चापि चरं चलम् ॥ तस्मिन्गजादिकारोहो वाटिकागमनादिकम् ॥ ३ ॥
Aho ! Shrutgyanam