________________
शुभाशुभप्रकरणम् ।
२३
as पक्षे यस्मिन्पक्षे तिथिद्वयनाशः स त्रयोदशदिनः पक्षः सोऽतिनिद्यः । उक्तं च । पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः । पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः । तथा । त्रयोदशदिने पक्षे तदा संहरते जगत् । अपि वर्षसहस्त्रेण कालयोगः प्रकीर्तित इति ॥ तस्मिन् पक्षे शुभकर्म वर्ज्यमित्याहुः । चंडेश्वरः । त्रयोदशदिने पक्षे विवाहादि न कारयेत् । गर्गादिमुनयः प्राहुः कृते मृत्युस्तदा भवेत् ॥ उपनयनं परिणयनं वेश्मारंभादिपुण्यकर्माणि । यात्रां द्विक्षयपक्षे कुर्यान्न जिजीविषुः पुरुषः ॥ अथ तद्वत्तेनप्रकारेण दंतरत्नादिभूषां दंताहस्तिदंतास्तत्संबंधिनीं भूषां रत्नसंबंधिनीं भूषां च आदिशब्दात् सुवर्णमणिसंबंधिनीं च भूषां वर्ज्या प्रोचुः । पूर्वस्मिन्निषेधकाले इत्यर्थः । राजमार्तंडः । यात्रां चूडां विवाहं श्रुतिविवरविधिं शंखसद्मप्रवेशप्रासादोद्यानहर्म्य सुरनरभवनारंभविद्याविधाने । मौंजीबंधं प्रतिष्ठां मणिकनकरदाधारणं कुर्वते ये मृत्युः सिंहस्थितेऽज्ये गुरुदिनकरयोरेकराशिस्थयोश्चेति ॥ सिंहस्थगुरोरुपलक्षणत्वादुर्वस्तादावपि प्रथमकर्तव्यसुवर्णादिधारणनिषेध इत्यर्थः ॥ ४८ ॥
अथ सिंहस्थगुरोः प्रकारत्रयेण परिहारमिंद्रवज्जयाह
सिंहे गुरौ सिंहलवे विवाहो नेष्टोऽथ गोदोत्तरतश्च यावत् ॥ भागीरथीयाम्यतटं हि दोषो नान्यत्र देशे तपनेऽपि मेषे ॥ ४९ ॥ सिंहे गुराविति ॥ अत्र प्रथममंशभेदेन परिहारः सिंहस्थे गुरौ सत्यपि सिंहांशे सत्र्यंशत्रयोदशांशे १३, २० भ्योऽनंतरं सत्र्यंशमंशत्रयम् ३, २० पंचमो नवांशः सिंहांस्तत्र गुरौ सति विवाहो नेष्टः । सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः । सर्वदेशेष्वयं त्याज्यो दंपत्योर्निधनप्रद इति राजमार्तंडोक्तेः । अतोऽवशिष्टांशेषु विवाहादिशुभं भवतीत्यर्थः । सिंहेऽपि भगदैवत्ये गुरौ पुत्रवती भवेत् । अत्यंत सुभगा साध्वी धनधान्यसमृद्विदेत्यादि तत्रैवोक्तेः । अथ देशभेदेन द्वितीयपरिहार उच्यते । अथ गोदोत्तरतः गोदावरी नदी तस्या उत्तरतीरमारभ्य भागीरथीयाम्यतटं दक्षिणकूलं मर्यादीकृत्य गोदावरीगंगांतरालघर्ती यो देशस्तत्र सिंहस्थगुरुर्वज्य नान्यदेशे । लः । गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् । तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥ अर्थाद्गोदावरीदक्षिणतटे भागीरथ्युत्तरदेशे च सिंहस्थ गुरुदोषो नास्ति । वसिष्ठः । भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा । विवाहो व्रतबंधो वा सिंहस्थेज्ये न दुष्यतीति । अत्र विवाहव्रतबंधावेव न निषिद्धौ आभ्यामन्यानि शुभकर्माणि निषिद्धान्येव । अपवादस्य संकोचाश्रयत्वादुपलक्षणायोगात् । अथ तृतीयः परिहारः । तपने सूर्ये मेषराशौ विद्यमाने सति वा सिंहस्थगुरोदोषो नास्ति । ज्योतिर्निबंधे । मंगलानीह कुर्वीत सिंहस्थो वाक्पतिर्यदा । भानौ मेषगते सम्यगित्याहुः शौनकादय इति ॥ ४९ ॥
Aho! Shrutgyanam