________________
मुहूर्तचिंतामणौ . वदिवारकरसंमिताश्च ॥ दुष्टक्षणः कुलिककंटककालवेलाः
स्युश्चार्धयामयमघंटगताः कलांशाः ॥ ३९॥ सूर्ये इति । दिग्भास्करा इति च ॥ रविवारे पष्ठसप्ताष्टमदशमचतुर्दशमुहूर्ता निद्याः । एवं सर्वत्र । अयमर्थो मूले न्यासतः स्पष्ट एव । एषु मुहूर्तेषु कश्चिदुर्मुहूर्तः कश्चित् कुलिकः कंटकः कालवेलाख्योऽर्धयामाख्यो यमघंटाख्यः स्यात् । तत्प्रमाणं कलांशः दिनमानस्य षोडशांशः ॥ ३८ ॥ ॥ ३९ ॥ अथ विवाहादिशुभकृत्ये होलिकाष्टकनिषेधं देशपरत्वेनाह
विपाशेरावतीतीरे शुतुद्रयाश्च त्रिपुष्करे ।।
विवाहादिशुभे नेष्टं होलिकामाग्दिनाष्टकम् ॥ ४० ॥ विपाशेति ॥ विपाशा इरावती शतद्रूः । एताः पश्चिमदेशप्रसिद्धा नद्यस्तासां तीरे उभयतटवर्तिदेशे त्रिपुष्करे देशे च होलिका फाल्गुनशुक्लपौर्णिमा ततः प्रादिनाष्टकं विवाहादिशुभकृत्ये नेष्टं निषिद्धम् । अर्थादन्यदेशे न निषिद्धम् ॥ ४० ॥ अथ मृत्युयोगादिदुष्टयोगपरिहारमनुष्टुभाह
मृत्युक्रकचदग्धादीनिंदौ शस्ते शुभान जगुः ॥
केचिद्यामोत्तरं चान्ये यात्रायामेव निंदितान् ॥ ४१ ।। मृत्युक्रकचेति ॥ मृत्ययोगा दास्त्रादर्क इत्यादिनाऽऽनंदादिषूक्ताः । क्रकचाः षष्ठयादितिथयो मंदाद्विलोममित्युक्ताः । दग्धादियोगाः सूर्येशपंचाग्नीत्यादिनोक्ताः । चंद्रे शस्ते कर्तुर्गोचरेण समीचीने सति एतान् योगान् शुभान् शुभफलदान् जगुरूचुः । राजमातंडः । क्रकचा मृत्युयोगाख्या दिनं दग्धं तथैव च । चंद्रे शुभे क्षयं यांति वृक्षा वजहता इव । अथ केचिदाचार्याः यामोत्तरं प्रहरोत्तरं मृत्युक्रकचदग्धादीन् शुभान् जगुः । स एवाह । उत्पाते यमघंटे च काणे च क्रकचे तथा। तिथौ दग्धे च काले च प्राग्यामात्परतः शुभमिति । अथान्य आचार्या मृत्युक्रकचदग्धादीन यात्रायामेव निंदितान् जगुः विवाहादौ तु न दोषः । लल्लः । वारक्षतिथियोगेषु यात्रामेव विवर्जयेत् । विवाहादीनि कुर्वीत गर्गादीनामिदं वचः । नियेष्विति शेषः । अन्यच्च । अयोगेषु च सर्वेषु वर्जयेद्धटिकाद्वयम् । उत्पातमृत्युकाणानां पंच षट् सप्त नाडिकाः ॥ ४१ ॥
पुनरप्यपवादं भुजंगप्रयातेनाहअयोगे सुयोगोऽपि चेत्स्यात्तदानीमयोगं निहत्यैष सिद्धि तनोति ॥ परे लग्नशुद्धया कुयोगादिनाशं दिना|त्तरं विष्टिपूर्व च शस्तम् ४२
Aho ! Shrutgyanam