________________
१६
मुहूर्तचिंतामणी
अथ सामान्यतोऽवश्यवर्ज्यानि पंचांगदूषणादीनि वसंततिलकानुष्टुभ्यामाहजन्मर्क्षमा सतिथयो व्यतिपातभद्रावैधृत्यमापितृदिनानि तिथिक्षयर्धी ॥ न्यूनाधिमासकुलिक प्रहरार्धपात विष्कंभवज्रघटिकात्रयमेव वर्ज्यम् ॥ ३४ ॥
परिघा पंच शूले षट् च गंडातिगंडयोः ॥ व्याघाते नव नाड्यश्च वर्ज्याः सर्वेषु कर्मसु ॥ ३५ ॥
जन्मक्षैति । परिघार्धमिति च ॥ जन्मनक्षत्रजन्ममासजन्मतिथयः शुभकर्मसु वयः । अयं निषेध आद्यगर्भस्यैव । नारदः । न जन्ममासे जन्म न जन्मदिवसेsपि वा । आद्यगर्भसुतस्याथ दुहितुर्वा करग्रह इति । जन्ममासलक्षणं जगन्मोहने वृद्धगर्गः । आरम्य जन्मदिवसं यावत्रिंशद्दिनं भवेत् । जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसु । वस्तुतस्तु यत्र शुक्लादिचांद्रमासे चैत्रादौ जन्माभूत् स चांद्रो मासो जन्ममासतया त्याज्यः । इंद्राग्नी यत्र हूयेते मासादिः संप्रकीर्तितः । अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकाविति हारीतोक्तमासलक्षणात् । व्यतीपातादयश्च वर्ज्याः पितृदिनं मातापित्रोर्मरणदिनं श्राद्धदिनमित्यर्थः । तिथिक्षयर्धी तिथिक्षयस्तिथिवृद्धिश्व तल्लक्षणमाह । वसिष्ठः । स्युस्तिस्वस्तिथयो वारे एकस्मिन्नवमा तिथिः । तिथिर्वारत्रये चैका त्रिद्युस्टद्वेऽपि निंदिते । न्यूनमासोऽधिमासश्च वर्ज्यः । संक्रमद्वयसहितः क्षयमासः अधिकमासोऽसंक्रांतः । कुलिकार्धप्रहरौ वक्ष्यमाणौ पातो महापातः । विष्कंभयोगवज्ञयोगयोराद्यं घटिकात्रयमेव वर्ज्यम् । एवकारेण कैश्वियोगे नव घटिका वर्ज्या इति यदुक्तं । यथा । विष्कंभाद्यघटीत्रयं च नवकं व्याघातवमिति वृत्तते । तथा । व्याघाते वज्रकेंडका इति गणेशज्योतिर्विदुक्तिरपि निरस्ता । विष्कंभवज्ज्रयोस्तिस्रः षट् च गंडातिगंडयोः । व्याघाते नव शूले तु पंच नाड्यो विगर्हिता इति कश्यपोक्तेः । परिघस्याद्यार्धं वर्ज्यम् । शूलस्याद्याः पंच गंडातिगंडयोराद्याः षट्टू षट् घटिकाः । व्याघाते चादिमा नव घटिका वर्ज्याः ॥ ३४ ॥ ३५ ॥
1
।
अथ पक्षरंप्रतिथीरावश्यकत्वे तन्निष्ठवर्ज्यघटीश्चानुष्टुभाहवेदांगावा केंद्रपक्षरंप्रतिथौ त्यजेत् ॥
वस्वकमनुतत्त्वाशाशरा नाडीः पराः शुभाः || ३६ ||
वेदांगेति ॥ चतुर्थी षष्टी अष्टमी नवमी द्वादशी चतुर्दशी एताः पक्षरंप्रतिथयो ज्ञेयाः आसु शुभकृत्यस्यावश्यकत्वे सति आदिमाः क्रमाद्वत्त्वकमनुतत्त्वाशाशरा नाडीस्त्यजेत् । यथा । चतुर्थ्यामादिमा अष्ट घटिकाः पष्ठयां नव अष्टम्यां चतुर्दश नवम्यां पंचविंशतिः
Aho! Shrutgyanam