________________
शुभाशुभप्रकरणम् ।
सत्यानंदादियोगेषु त्रयोविंशतिसंख्यो गदयोगो जातः । एवमिंदुवारे मृगशीर्षाद्गणनयाऽनंदादयो ज्ञेयाः ॥ २९ ॥
अथैतेषु कियतां दुष्टयोगानामावश्यककृत्ये परिहार शालिन्याह
१३
ध्वांक्षे वज्रे मुद्गरे चेषुनाड्यो वर्ज्या वेदाः पद्मलंबे गदेऽश्वाः ॥ धूम्र का मौसले भूयं द्वे रक्षोमृत्यूत्पातकालाच सर्वे ।। २६ ।। ध्वांक्ष इति ॥ ध्वांक्षवज्रमुद्गरयोगेषु आद्या इषुनाड्य : पंच घटिका वर्ज्याः । पद्मवयोर्वेदाश्वतस्त्रः एवं गदेऽश्वाः सप्त धूम्रे भूरेकैव काणे घटिकाद्वयं मुसले द्वे घटिके | राक्षस मृत्यूत्पातकालाः सर्वे षष्टिघटिकात्मका वर्ज्याः । कालः कालदंडः । अत्रानुक्तेऽपि चरे योगे घटिकात्रयं वर्ज्यम् । उक्तं च ज्योतिः सागरे । ध्वांक्षेद्रायुधमुद्गरेषु घटिकास्त्यज्यास्तु पंचादितः पद्मालुंबकयोश्चतस्त्र उदिता धूम्रे सदैका पुनः । द्वे काणे मुसलाह्वयेऽपि च गदे सप्तैव तिस्रश्चरे मृत्यूत्पातकरक्षसां दिनगतास्ताः कालदंडे तथा ॥ २६ ॥ अथ दोषापवादभूतान्नव योगाननुष्टुभाह
सूर्यभावेदगोतर्क दिग्विश्वनखसंमिते ॥
चंद्र रवियोगाः स्युर्दोषसंघविनाशकाः ॥ २७ ॥ सूर्यभादिति ॥ सूर्यो यत्र तन्नक्षत्रमारभ्य चंद्र दिननक्षत्रे चतुर्नव षड् दश त्रयोदश विंशतिसंख्या के सति रवियोगाः स्युस्ते च दोषसमूहानां नाशकराः । उक्तं च । सूर्याच्चतुर्थे दशमे च षष्ठे विश्व के विशति नव । भवंति षड्भानुसदृक्षयोगाः कुयोगविध्वंसकराः शुभेषु ॥ २७ ॥
अथ सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगाद्रिवत्रोपजातिकाभ्यामाह
सूर्येऽर्कमूलोत्तर पुष्यदास्रं चंद्रे श्रुतिब्राह्मशशीज्यमंत्रम् ॥ Historiesकुशानुसा ज्ञे ब्राह्ममैत्रार्ककृशानुचांद्रम् ॥ २८ ॥ जीवsत्यमैत्राव्यदितीज्यधिष्ण्यं शुक्रेऽत्यमैत्राइव्यदितिश्रवोभम् । art श्रुतिब्राह्मसमीरभानि सर्वार्थसिद्धये कथितानि पूर्वैः ॥ २९ ॥
सूर्य इति । जीव इति च ॥ रविवारे हस्तमूलत्र्युत्तरा पुष्याश्विनीनक्षत्राणि पूर्वैराचार्यैः सर्वार्थसिद्धयै कथितानि । एवं चंद्रे श्रवणादीनि । एते सिद्धियोगा दास्रादर्के मृगादिदावित्यादिप्रकारेणानंदादिसमीचीनयोगसंबंधिनक्षत्रैरुपनिबद्धाः । भीमपराक्रमेण कुयोगा अयुक्ताः । ज्येष्ठावह्निमघा विशाखवसवो मैत्रं यमाख्यं रवौ सोमे शैवविशाखपुष्यपवनाश्चित्रा त्वषाढाद्वयम् । भौमे विश्वजलेशमित्रवसवः प्राग्भाद्रसार्णौ शिवः शूलीरेवति पूर्वयोनिभरणीवस्वश्विमूला बुधे || जीवे मूलमघार्द्रयाम्यवरुणाः पूषा शशी रोहिणी शुक्रे स्वा
Aho! Shrutgyanam