________________
मुहूर्तचिंतामणौ कृष्णे पंचमी । अथैषामेव कार्तिकादिमासानां शुक्लपक्षे शक्रायग्निविश्वरसाः क्रमाच्छ्रन्याः । यथा । कार्तिक शुक्ले चतुर्दशी शून्या । आषाढशुक्ले सप्तमी फाल्गुनशुक्के तृतीया ज्येष्ठशुक्ले त्रयोदशी माघशुक्ले षष्ठी चेति । वसिष्ठः । अष्टमी नवमी चैत्रे पक्षयोरुभयोरपि । माधवे द्वादशी त्याज्या पक्षयोरुभयोरपि ॥ ज्येष्ठे त्रयोदशी निंद्या सिते कृष्णे चतुर्दशी । आषाढे कृष्णपक्षस्य षष्ठी शुक्ले तु सप्तमी । द्वितीया च तृतीया च श्रावणे सितकृष्णयोः। प्रथमा च द्वितीया च नभस्ये मासि निंदिते ॥ दशम्येकादशी निंद्या मासीषे शुक्लकृष्णयोः । ऊर्जे चतुर्दशी शुक्ला कृष्णपक्षे तु पंचमी ॥ सप्तमी चाष्टमी सौम्ये पक्षयोरुभयोरपि । पौषे पक्षद्वये चैव चतुर्थी पंचमी तथा ॥ माघे तु पंचमी षष्ठी शुले कृष्णे यथाक्रमम् । तृतीया च चतुर्थी च फाल्गुने सितकृष्णयोः ॥ तिथयो मासशून्याख्या वंशवित्तविनाशनाः । आसु श्राद्धं प्रकुर्वीत नैव मंगलमाचरेदिति ॥ १० ॥ अथ नक्षत्रसंबंधिदोषान् सार्धानुष्टुब्वयेनाह
तथा निंद्यं शुभे सापं द्वादश्यां वैश्वमादिमे ॥११॥ अनुराधा द्वितीयायां पंचम्यां पित्र्यभं तथा ॥ त्र्युत्तराश्च तृतीयायामेकादश्यां च रोहिणी ॥ १२॥ स्वातीचित्रे त्रयोदश्यां सप्तम्यां हस्तराक्षसे ॥
नवम्यां कृतिकाष्टम्यां पूभा षष्ठयां च रोहिणी ॥१३॥ तथेति । अनुराधेति । स्वातीति च ॥शुभे कृत्ये द्वादश्यां सार्पमाश्लेषा निंद्या। आदिमे प्रतिपदि वैश्वमुत्तराषाढा । राक्षसं मूलम् । लल्लः । द्वितीयया चानुराधा व्युत्तराश्च तृतीयया । पंचम्या च मघा युक्ता चित्रास्वात्योस्त्रयोदशी ।। प्रतिपद्युत्तराषाढी नवम्यां कृत्तिका यदि । सप्तम्यां हस्तमूले च षष्ठयां ब्राह्मं भवेद्यदि ॥ पूर्वाभाद्रपदाष्टम्यामेकादश्यां च रोहिणी । द्वादश्यां च यदाश्लेषा त्रयोदश्यां मघा यदीत्यादि । एषु कार्ये कृते चेत्स्यात्षण्मासान्मरणं ध्रुवमिति ॥ ११ ॥ १२ ॥ १३॥ अथ चैत्रादिमासेषु शून्यनक्षत्राण्यनुष्टुब्रयेनाहकदास्रो त्वाष्ट्रवायू विश्वेज्यौ भगवासवौ ॥ वैश्वश्रुती पाशिपौष्णे अजपादग्निपित्र्यभे ॥ १४ ॥ चित्राद्वीशे शिवाव्यर्काः श्रुतिमूले यमेंद्रभे॥
चैत्रादिमासे शून्याख्यास्तारा वित्तविनाशदाः॥१५॥
कदास्रेति।चित्रेति च ॥ कदात्रभे रोहिण्यश्विन्यौ चैत्रे शून्ये नक्षत्रे । एषु शुभ__ कार्य न कार्यम् । यतो वित्तविनाशदाः धननाशकरा इत्यर्थः । एवं वैशाखे त्वाष्ट्रवायू
Aho ! Shrutgyanam