________________
मुहूतचिंतामणौ वारे संवर्तयोगा अधमा स्यात् । अथ षष्ठी आद्या प्रतिपत् अमा अमावास्या रदधावने दंतानां काष्ठादिभिर्मलनिराकरणेऽधमा निषिद्धाः स्युः । क्वचिन्नवमीरविवारयोरपि निषेधः । काशीखंडे । प्रतिपद्दशमी षष्ठी नवम्यां रविवासरे । दंतानां काष्ठसंयोगो दहेदासप्तमं कुलमिति ॥ ६ ॥
अथ कृत्यविशेषेषु निषिद्धतिथीरिंद्रवंशाछंदसाहषष्ठयष्टमीभूतविधुक्षयेषु नो सेवेत ना तैलपले क्षुरं रतम् ॥ नाभ्यंजनं विश्वदशद्धिके तिथौ धात्रीफलैः स्नानममाद्रिगोष्वसत् ॥७॥
षष्ठीति ॥ षष्ठ्यष्टम्यौ प्रसिद्धे भूतश्चतुर्दशी विधुक्षयोऽमावास्या एतासु तिथिषु ना पुरुषः तैलं पलं मांसं क्षुरं क्षौरम् रतं मैथुनं नो सेवेत । यथा षष्ठयां तैलम् अष्टम्यां मांसम् चतुर्दश्यां क्षौरम् अमावास्यायां मैथुनम् न सेवेतेत्यर्थः । विधुक्षयः पर्वोपलक्षकः । वसिष्ठः । स्त्रीसेवनं पर्वसु पक्षमध्ये पलं च षष्ठीषु च सर्वतैलम् । नृणां विनाशाय चतुर्दशीषु क्षुरक्रिया स्यादसकृत्तदाशु । नारदः । व्यतीपाते च संक्रातावेकादश्यां च पर्वसु । अर्कभौमदिने विष्टयां नाभ्यंगं न च वैधृताविति । पर्वाणि वसिष्ठ आह । चतुर्दश्यष्टमी कृष्णा अमावास्या च पौर्णिमा । पुण्यानि पंच पर्वाणि संक्रांतिर्दिनपस्य चेति । अत्र तिथिस्तात्कालिकी ग्राह्या । उक्तं च । स्नाने चाभ्यंजने चैव दंतधावनमैथुने । तिथिस्तात्कालिकी ग्राह्या तथा मरणजन्मनोरिति । अथ विश्वे त्रयोदशी दश दशमी द्विका द्वितीया एतासु तिथिषु अभ्यंजनमभ्यंगं मलापहाथ न सेवेत । अयं निषेधो ब्राह्मणव्यतिरिक्तस्य । तथा च भट्टभास्करो निर्णयामृते । त्रयोदश्यां द्वितीयायां सप्तम्यां च विशेषतः । शूद्रविटक्षत्रियाः स्नानं नाचरेयुः कदाचनेति । अथ धात्रीफलैरामलकैः स्नानममाद्रिगोषु अमासप्तमीनवमीषु असत् निषिद्धमित्यर्थः । अत्र वसिष्ठादिमते त्रयोदश्यादितिथिष्वामलकत्तानस्यैव निषेधो नाभ्यंगस्य । वसिष्ठः । कामदुर्गातकरविनप्टेंडर्कदिनेषु च । सकदामलकस्नानं संपत्पुत्रविनाशनम् । भट्टभास्करस्तु नवम्यादिष्वेवामलकस्नानं निषेधति । सप्तम्यचंद्रानवमीषु देहश्रीसंततीरामलकैनरस्य । स्नानं निहत्यंत्यदिने तु धत्ते तिलैः श्रियं पुण्यकरं सदैवेति ॥ ७ ॥ ___ अथ सूर्यादिवारेषु दग्धादियोगचतुष्टयमिंद्रवज्रोपजातिकाभ्यामाहसूर्येशपंचाग्निरसाष्टनंदा वेदांगसप्ताश्विगजांकशैलाः॥ . सूर्यांगसप्तोरगगोदिगीशा दग्धा विषाख्याश्च हुताशनाश्च ॥ ८॥ सूर्यादिवारे तिथयो भवंति मघा विशाखा शिवमूलवह्निः॥ ब्राह्मं करोऽर्काद्यमघंटकाश्च शुभे विवा गमने त्ववश्यम् ॥९॥
सूर्येशेति ॥ सूर्यादीति च ॥ सूर्यशपंचाग्निरसाष्टनंदाः तिथयः सूर्यादिवारे दग्धसंज्ञा
Aho! Shrutgyanam