________________
यात्राप्रकरणम् ।
१९५
मुक्त्वा व्रजेत् । यथा । प्रतिपदि अर्कस्य प्रसिद्धस्य दलानि पर्णानि द्वितीयायां तंडुलवारि प्रक्षालिततंडुलजलम् तृतीयायां सर्पिघृतम् चतुथ्यो श्राणा यवागूः पंचम्यां हविष्यान्नं मु. द्रादि षष्ठयां हेमजलं प्रक्षालितसुवर्णजलम् सप्तम्यां अपूपम् अष्टम्यां रुचकं बीजपूरफलम् । रुचको मातुलिंगक इत्यमरः । नवम्यां अंबु जलम् दशम्यां धेनुमूत्रम् एकादश्यां यवान्नं यवविकारम् द्वादश्यां पायसम् त्रयोदश्यां गुडमिक्षुविकारम् चतुर्दश्यामसूक् रुधिरम् पंचदश्यामन्नमुद्गान् अन्नमिश्रितमुगान् । गुरुः । अर्कपत्रं भवेद्यातुः प्रथमायां तु भक्षणम् । द्वितीयायां भवेद्यातुर्भक्ष्यं सत्तंडुलोदकम् ॥ तृतीयायां तथा सर्पिर्यवागूः स्यात्ततः परम् । पंचम्यां तद्धविष्यं स्यात्षष्ठयां वा कांचनोदकम् ॥ अपूपभुक्तिः सप्तम्यामष्टम्यां बीजपूरकम् । नवम्यां तोयपानं स्याद्गोमूत्रं तु ततः परम् ॥ एकादश्यां यवानद्याहादश्यां पायसं भवेत् । त्रयोदश्यां गुडं लेह्यं रुधिरं स्याच्चतुर्दशे॥ मुद्गौदनं भवेद्भोज्यं पंचदश्यां यियासतः । पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृत इति । अत्र दुष्टभादिषु दोहदभक्षणेन दोषापाकरणं युक्तं विधिकरणं तु व्यर्थमिति चेन्न । आवश्यकगमने महादोषाणामपि पारिघदंडविरुद्धताराक्र्रसाहित्यादीनां दोषवारणाय दोहदोक्तेः सार्थक्यात् । एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थम् वारदोहदोक्तिरपि वक्रिग्रहवासरवारशूलादिदोषहान्या सार्थिका ॥ ८॥ अथ गमनसमये विधि प्रहर्षिण्याह
उद्धृत्य प्रथमत एव दक्षिणांप्रिं द्वात्रिंशत्पद्मभिगत्य दिश्ययानम् ॥ आरोहेत्तिलघृतहेमताम्रपात्रं
दत्त्वादौ गणकवराय च प्रगच्छेत् ॥ ८९ ॥ उद्धृत्येति ॥ राजा गमनसमय एव प्रथमतो दक्षिणांधिं दक्षिणचरणमुद्धृत्य पश्चाहात्रिंशत्पदपरिमितां भूमिं गत्वादिश्ययानं वक्ष्यमाणं हस्त्यादियानमारोहेत् । तिलेति । आरोहणसमये एव च तिलघृतहेमसहितं ताम्रपात्रमादौ गणकवराय ज्योतिर्विच्छ्रेष्ठाय च चकारादन्येभ्योऽपि ब्राह्मणेभ्यो यथाशक्ति दानं दत्त्वा प्रगच्छेत् ॥ ८९॥ अथ दिश्ययानमनुष्टुभाह
प्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि ॥ . दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥ ९० ॥ प्राच्यामिति ॥ नरैर्नरवाद्यैः सुखासनादिभिः अन्यत् स्पष्टार्थम् ॥ ९० ॥
Aho ! Shrutgyanam