________________
मुहूर्तचिंतामणी
कौर्ममिति ॥ ज्येष्ठायां कूर्मस्य कच्छपस्येदं कौर्म मांसं मूले सारिकायाः पक्षिण्या इदं सारिकं मांसं पूर्वाषाढायां गोधायाः इदं गौधिकं मांसं उत्तराषाढायां शलस्य पक्षिण इदं शाल्यं मांसम् । श्वावित्तु शल्य इत्यमरः । अभिजिति हविष्यं मुद्रादि श्रवणे कसरानं खिच्चडिका धनिष्ठायां मुगौदनं शतभे यवानां यवपिष्टं पूर्वाभाद्रपदायां मत्स्यान्नं मत्स्यमिश्रितमोदनम् उत्तराभाद्रपदायां चित्रान्नं चित्रवर्णमोदनम् रेवत्यां दध्यन्नं दधिभक्तमिति । नारदः । कुल्माषांच तिलान्माषान्दधि गव्यं घृतं पयः । मृगमांसं च तत्सारं पायसं चाषकं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् । चित्रांडजान् फलं कूर्म सारी गोधां च शल्यकम् ॥ हविष्यं कृसरान्नं च मुद्गान्नं यवपिष्टकम् | मत्स्यान्नं चित्रितान्नं च दध्यन्नं दस्रभात् क्रमादिति । गुरुः । अलभ्या लभ्या भक्ष्या वा स्मृत्वा स्पृष्ट्वाथ तान्व्रजेत् । गत्वा सिद्धिमवाप्नोति दुष्टभादिषु भूपतिः । दोहदेषु ग्रंथांतरे भेदस्तत्र विकल्पो ज्ञेयः ॥ ८१ ॥ अथ दिग्दोहदमनुष्टुभाह
१९४
आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् ॥ भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् ॥ ८६ ॥
आज्यमिति ॥ आज्यं घृतं पूर्वस्याम् तिलमिश्रमोदनं दक्षिणस्याम् मत्स्यं पश्चिमायाम् पयो दुग्धमुत्तरस्याम् । दिशि भवं दिश्यं एतद्दोहदं भक्षयेत् । ततः पूर्वाद्यामाशां व्रजेत् ॥ ८६ ॥
वारदोह दमनुष्टुभाह
रसालां पायसं कांजीं श्रुतं दुग्धं तथा दधि ॥ पयोऽभृतं तिलान्नं च भक्षयेद्वारदोहदम् ॥ ८७ ॥
रसालामिति ॥ रसाला शर्करा दधिमरीचक पूरैलासंस्ष्टष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे पायसं सोमवारे कांजी प्रसिद्धा तां भौमवारे शृतं पक्कदुग्धं बुधे दधि गुरौ अनृतं अपक्कदुग्धं शुक्रे तिलमिश्रमोदनं शनिवारे एतद्वारदोह रविवारा क्रमेण भक्षयेत् । स्याद्रसाला तु मार्जिकेत्यमरः ॥ ८७ ॥ अथ तिथिदोहदं वसंततिलकयाह
पक्षादितोऽर्कदलतंडुलवारि सर्पिः श्राणा हविष्यमपि हेमजलं त्वपूपम् ॥ भुक्त्वा व्रजेदुचकमंबु च धेनुमूत्रं
यावान्नपायसगुडानसृगन्नमुद्गान् ॥ ८८ ॥
पक्षादित इति ॥ पक्षादितः प्रतिपदमारभ्य पंचदशतिथिषु क्रमेण तिथिदोहदं
Aho! Shrutgyanam